________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः।
७२९
इयं भूमिहि भूतानां शाश्वती योनिरुच्यते ॥
न च योनिगुणाकांश्चिद्वीजं पुष्यति पुष्टिषु ॥ ३७॥ बीजगुणानुवृत्तिः पूर्वेणोक्ता । अनेन क्षेत्रगुणानामभावमाह । एषा भूमिभूतानां स्थावराणामोषधीतृणगुल्मलतानां योनिः क्षेत्रमुच्यते । न च तद्गुणास्तेषु भूतेषु केचन दृश्यन्ते । न मृदः पांसवो वा तत्रोपलम्यन्ते । बीजं पुष्यति पुष्टिषु । बीजशब्दोऽत्राङ्कुर- ५ निर्गतब्रीह्यादिवचनो न मूलवचनस्तदपि हि पुनरुपभुक्तशेषमुप्यमामपरस्मिन्वत्सरे भवत्येव बीजं तच्च पुष्यति नानुवर्तते । पुष्टयङ्गं भूतायामनुवृतौ । पुष्यतिवर्तमानः सकर्मकत्वं द्वितीयानिमित्तं । योनिर्गुणान्प्राप्यति वा भजते । पुष्टिषु तदवयवेषु निमित्तं न पुष्यति नानुवर्तते । यदि पुष्यङ्गाऽनुवृतिराख्यातेनोच्यते पुष्टिष्वित्यन्यार्थकं तस्मादनेकार्थत्वाद्धातूनामन्यवचनमात्र एवाख्यातनानुव्याख्येयः । श्लोकपूरणार्थ वा पुष्टिष्विति १० कथंचित्पौनरुत्त्यं परिहार्य सामान्यविशेषभावेन वाऽन्वयो वक्तव्यः । स्वपोषं पुष्ट इति यथा ॥ ३७॥
भूमावप्येककेदारे कालोप्तानि कृषीवलैः ।।
नानारूपानि जायन्ते बीजानीह स्वभावतः ॥ ३८ ॥ अनन्तरोक्तोऽर्थ उदाहरणायाक्रियते । एककेदारेऽपि परत्र योजनीयः । एक- १५ स्मिन्नपि क्षेत्रे भूमेः काले यस्य बीजस्य यो वैककालस्तस्मिन्नुप्तनिकर्षकैभिन्नरूपाणि जायन्ते बीजानि स्वभावानुविधानादित्यर्थः । यदि च क्षेत्रे प्राधान्यं स्यात्क्षेत्रस्यैकत्वासर्वाण्यैकरूपाणि स्युः ॥ ३८ ॥
त्रीहयः शालयो मुद्गास्तिला माषास्तथा यवाः॥
यथा बीज प्ररोहन्ति लशुनानीक्षवस्तथा ॥ ३९ ॥ तानि नानारूपत्वेन बीजानि दर्शयति । यथा वा बीजस्वभावाभिपत्या। सर्वत्र जात्याख्यायां बहुवचनम् ॥ ३९ ॥
अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते ॥
उप्यते यद्धि यद्वीजं तत्तदेव प्ररोहति ॥ ४०॥ एष एवार्थः शब्दान्तरेण निगम्यते । अन्यदुनं जातमन्यदित्यनेनोपपद्यते । २५ यद्धि यदीजं तदेव प्ररोहति मुद्रेषप्तेषु व्रीहयो जायन्त इत्येतन्नास्ति । प्रतिषेधमुखेनोक्तस्य विधिमुखेन पुनः प्रतिपादनमुच्यते । यद्धि यहीजम् ॥ ४० ॥
For Private And Personal Use Only