SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२६ मेधातिथिभाष्यसमलंकृता। [ नवमः हीनजातीयाऽप्यक्षमाला वसिष्ठभार्या तत्संयोगादभ्यर्हणीयता प्राप्ता । शार्डी . तिर्यग्जातिः चटका मन्दपालेन मुनिना संयुक्ता तथैव पूज्या । अतो हीनजातीयाः कनीयस्योऽपि भूयो भर्तृवत्पूज्याः । तथा चोक्तं " वयसि स्त्रिय” इति ॥ २३ ॥ एताश्चान्याश्च लोकेऽस्मिन्नवकृष्टप्रसूतयः॥ उत्कर्ष योषितः प्राप्ताः स्वैः स्वैर्भर्तगुणैः शुभैः ॥ २४ ॥ अवकृष्टा निकृष्टा प्रसूतिरुत्पत्तियांसां ता अवकृष्टप्रसूतयः। अन्याश्च गङ्गाकालीप्रभृतयः । द्वयोः प्रकृतत्वादेता इति बहुवचनं चशब्देन तृतीयामाक्षिप्य द्विवचनं वा एते च ॥ २४ ॥ एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा ॥ १. प्रत्येह च सुखोदकान्मजाधर्मानिवोधत ॥२५॥ लोकयात्रा लोकवृत्तं लोकाचारो लोकसिद्धमेतत् । नायं विधिलक्षणोऽर्थो यदेवं शक्यते रक्षितुं नान्यथेति । अपरिक्षिताभिश्च ताभिः प्रसूत्यादिदोष भवतीति । इदानी प्रजाधान्निबोधत । कस्य प्रजा बीजिनो वा क्षेत्रिणो वेति । उदक आगामीकाल: स सुखो येषां सर्वे हि वस्त्ववसाने विरमन्ते । ते तु नैवमिति प्रशंसा । ननु च का १५ सुखोदकता प्रजा धर्मस्य या च प्रनाऽस्याधीना स्त्रियश्च बहुभिर्दोषैरावृतत्वत्यागार्हाः ॥२५॥ न हि — गृहे सर्वान्विभूयात् ' इत्येतन्निवृत्त्यर्थमाह प्रजनार्थ महाभागाः पूजार्हा गृहदीप्तयः ॥ स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्च न ॥ २६ ॥ शक्यप्रतिविधानत्वादोषाणां पूजार्हाः। यदेतद्दोषप्रयोजनं तन्नावज्ञानार्थं परिवर्जनार्थ २० वाऽभिशस्तपतितादि च । किं तर्हि । रक्षार्थ दोषाणां । न हि भिक्षुकाः सन्तीति स्थाली नाधिश्रियते । न च मृगाः सन्तीति यना नोप्यन्त इति प्रयोजनं गर्भग्रहणात्प्रमत्यपत्यपरिपोषणपर्यन्तो व्यापारोऽभिप्रेतः । तथा च वक्ष्यति " उत्पादनमपत्यस्य जातस्य परिपालनम् ' इति । गृहे दप्तिय इव । न हि गृहे सेवा स्त्रिभिविना काचिदस्तीति सुप्रसिद्धमेतत् । सत्यपि श्रीविभवे भार्यायामसत्यां सुत्दृत्स्वजनादिष्वागतेषु न गृहस्थाः २५ प्रतिपुरुष भोजनादिमिरावयितुं समर्थाः । यथा दरिद्रे न भवति शक्तिरतः स्त्रियाः श्रियश्च न विशेषो गृहेष्विति ॥ २६ ॥ उत्पादनमपत्यस्य जातस्य परिपालनम् ॥ प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् ॥ २७ ॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy