________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः1
मनुस्मृतिः।
७२५
स्तत्प्रतिपादनार्थमङ्गदकुण्डलादिलक्षणं तत्परिभूतमिदं स्वलक्षणं स्वभाव इत्यर्थः । एतदासां स्वलक्षणं यदर्व्यभिचारात्मकम् ॥ १९ ॥
यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता ॥
तन्मे रेतः पिता ईक्तामित्यस्यैतन्निदर्शनम् ॥ २० ॥ इति कारणान्तेन पादत्रयेण मन्त्रैकदेशोऽनुकृतः । यन्मे माता अपतिव्रता ५ पत्युरन्यपुरुषे नै कामश्चेतसापीति यस्या व्रतं नियमः सा पतिव्रता । तद्विपरीताऽपतिव्रता विचरन्ती परगृहान्गच्छन्ती तत्रोज्वलवेषं दृष्ट्वा प्रलुलुभे । लोभं स्पृहामन्यपुरुषं प्रति कृतवती तत्पापं ममोत्पत्त्या वा तत्पितुः संवन्धि यद्रेतः शुक्रं तद्वतामपनुदतु । तद्रेतसा स दोषोऽपमृज्यतां । रेत इति षैष्ठी स्थाने प्रथमा व्यत्ययेन । अथवा रेत एव पितृत्वेन परिकल्पते । अपरित्यक्तस्वलिङ्ग एव रेतसा सामानाधिकरण्यमनुभवति । १० " द्यौमें पितेति" (ऋग्वेदे २।३।२०) यथा । अथवा मातृबीजमप्युच्यते । तद्रेतः पिता जनको वृशां शोधयतां । दोसपाद्यत्त्वं पितृनबीजप्रभावेन मातृदोषोऽपनुद्यतामित्यर्थः । अस्य व्यभिचारात्मकस्यैतन्निदर्शनं दृष्टान्तः । सर्वे जापमाना एतं मन्त्रमुच्चारयन्ति । यदि च सर्वाः स्त्रियो दुष्टस्वभावास्ततो मन्त्रस्य नित्यवत्प्रयोगोपपत्तिरितरी पाक्षिकः स्याचातुर्मास्येष्वयं मन्त्रो विनियुक्तः पाद्यानुमन्त्रणे च श्राद्धे ॥ २० ॥
ध्यायत्यनिष्टं यत्किंचित्पाणिग्राहस्य चेतसा ॥
तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ॥ २१ ॥ पाणिग्राहो भर्ता । तस्य चेतसा यदनिष्टमप्रियं परपुरुषसंपर्कादिकं स्त्री चिन्तयति तस्य मानसस्य व्यभिचारस्य निन्हवः शुद्धिरनेन मन्त्रेण कर्मणि नियुक्तेनोच्यते । प्रसङ्गान्मन्त्रप्रयोजनं दर्शितं । यद्यपि कर्मगुणतैव कर्माङ्गमन्त्रप्रयोजनं तथापि १० जपादौ विनियोगान्मानसव्यभिचारनिवृत्त्यर्थनाऽप्युच्यते ॥ २१ ॥
यादृग्गुणेन भी स्त्री संयुज्येत यथाविधि ॥
ताहरगुणा सा भवति समुद्रेणेव निम्नगा ॥२२॥ भार्यासंरक्षणकामेन दौःशील्यादात्मा रक्षितव्यो नाप्येतयैव केवलया पापतो दुःशीलस्य भार्याऽपि तथाविधैर्भवति गुणवतः शीलवती यथा समुद्रेण निम्नगा नदी १५ संयुज्यमाना क्षारोदका भवति मधुररसापि सती ॥ २२ ॥
अक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा ॥
शारङ्गी मन्दपालेन जगामाभ्यहणीयताम् ॥ २३ ॥ १-र-द्वयोभिचारात्मकः । २ ण-र-तन्मे । ३ ण-र-पुरुषेण । ४ ज-र-मता उत्पन्ना मम च शुद्धाभाष्यं तत्पुनः संबंध यद्रेतशुक्र । ५ण-र-पितेति । ६ ण-र-षट्या । ७ ण-र-तं दोषं संपादय तु पितृ । ८ फ-जप। ९ण-र-येताः १० ण-र-मन्त्रस्था। ११ ण-र-इतरथाः ।
For Private And Personal Use Only