________________
Shri Mahavir Jain Aradhana Kendra
७२०
[ अष्टमः
मेव प्रतिग्रहं तथा च प्रतिग्रहसमर्थोऽपि संतोषपरश्च स्यादित्यापद्यते । यदपि श्रूयते - निच्छतावपीति सोऽर्थवादः । शूद्रमेव दास्यमित्येवं सर्वत्र नियमरूपता द्रष्टव्या ॥ ४११ ॥ क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ ॥ विभृयादानृशंस्येन स्वानि कर्माणि कारयन् ॥ ४९२ ॥
ब्राह्मणस्य च हत्या कर्शितौ ब्राह्मणो विभ्रयाद्भक्तदानादिना क्षत्रियवैश्ययोर्भरणं कुर्यादानृशंस्येनानुकम्पया स्वानि कर्माणि कारयेत् । ब्राह्मणस्य यानि स्वानि समित्कुशोदकुंभाहरणादीनि अथवा क्षत्रियवैश्ययोर्यानि स्वानि क्षत्रियो ग्रामरक्षादौ नियोक्तव्यो वैश्यः स्वकृषिपशुपाल्यादौ महाधनो यो ब्राह्मणो महापरिषच्च सामर्थ्यात्तस्यैष १० विधिः । स्वानि कर्माणीति वचनात् दास्यं कारयितव्यो गर्हितोच्छिष्टमार्जनादि ॥ ४११ ॥ दास्यं तु कारयँलाभाद्राह्मणः संस्कृताद्विजान् ।।
अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट् ॥ ४१२ ॥
२०
www. kobatirth.org
२५
मेधातिथिभाष्यसमलंकृता ।
संस्कृता उपनीता । यद्यपि द्विजग्रहणादेवैत लभ्यते तथापि त्रैवर्णिक जात्युपलक्षणार्थ
न विज्ञायीति यो ब्राह्मणः समानजातीयान्दास्यं पादधावनोच्छिष्टावकरणं संमार्जना१५ दिकं रूपमनिच्छतः प्रभवतो वाचः प्राभवत्यं प्रभुत्वं शक्यतिशययोगतो बलादिना यः कारयति स षट्शतानि दण्ड्यः । लोभादेतद्वेषादिभिस्त्वधिको दण्ड्यः । शत्रन्तस्य भवतेर्भावप्रत्यये प्राभवत्यादिति रूपं प्रभुत्वेनेति वचनाद्गुरोर्न दोष: । अनिच्छत इति वचनादिच्छतामन्यो दण्डः || ४१३ ॥
३०
Acharya Shri Kailassagarsuri Gyanmandir
शूद्रं तु कारयेद्दास्यं क्रीतमक्रीतमेव वा ॥
दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयंभुवा || ४१४ || क्रीतमक्रीतं भक्ताद्युपनतं वक्ष्यमाणस्य विधेरनुवादोऽयं । दास्या यैवेत्यर्थवादः॥ ४१४ ॥ न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते ॥ निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति ।। ४१५ ॥
यमाश्रितः सप्तभिः दाशयोनिभिस्तेन निसृष्टोऽपि । दास्यायैवेत्यर्थवादः । न स्वामिना निसृष्टोऽपि किंतु निसर्गजं सहजं जातिसहभाविकं । तस्माच्छूद्रो दास्यमपोइत्यपनयति यथा शूद्रजातिर्न तस्यापनेतुं शक्यैवं दास्यमपि । अर्थवादोऽयं । यतो वक्ष्यति निमित्तविशेषे शूद्रस्य वा दास्यान्मोक्षः ॥ ४१५ ॥
ध्वजात्हृतो भक्तदासो गृहजः क्रीतदत्रिम ||
पैत्रिको दण्डदासश्च सप्तैते दासयोनयः || ४१६ ॥
ध्वज ग्रहणं वाहनोपलक्षणार्थं । ध्वजिनी सेनोच्यते । तत आत्हृतः । संग्रामे जितः सन्दासीकृतः । किंपुनरिदं क्षत्रियस्य वचनम् । युद्धे जितः क्षत्रियो दासीभवति । नेति । शूद्रस्यैव प्रकृतत्वात् । " दास्यायैव हि सृष्टोऽसौ " इति स्वामिनं जित्वा
ब्रूमः
अध्याय ५ श्लो, २२-४३ !
For Private And Personal Use Only