SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः । न शक्यते लक्षयितुं कति योजनानि नौयूंढा येन तदनुसारेण मूल्यं कल्पन्ते । नदनदीषु शक्यते ज्ञातुमयं पन्था योजनमात्रो द्वियोजन इति । तत्र हि तत्र ग्रामाः परिमाणचिन्हें तत्रैकयोजनेऽध्वनि यन्मूल्यं द्विगुणं तद्वियोजने । समुद्रे तु बहुवाह्या नौ न च सुष्टु शक्यते योजनादिपरिच्छेदः कर्तुम् । अत एवोक्तं समुद्रे नास्ति लक्षणमिति ॥ ४०७ ॥ गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः॥ ब्राह्मणालिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥ ४०८॥ द्वाभ्यां मासाम्यामृतुदर्शनस्य व्यक्तगर्भा स्त्री भवति तस्या अनुग्राह्यत्वात्तरपणो न प्रायः । प्रव्रजितश्चतुर्थाश्रमी मुनिस्तापसः । ब्राह्मणालिङ्गिनो ब्रह्मचारिणो ब्राह्मणग्रहणं विशेषणम् । तेन बाह्यप्रव्रज्यालिङ्गधारिणां नैष विधिः । तरप्रयोजनं तारिकं पणादि तरनिमित्तं न दाप्याः । वृत्तानुरोधात्तारिकमिति सिद्धे तरग्रहणम् ॥ १०८॥ यन्नावि किंचिद्दाशानां विशीर्येतापराधतः ॥ तहाशैरेव दातव्यं समागम्य स्वतोंऽशतः॥ ४०९ ॥ नाव्यारोपितभाण्डं तरणिकायां यदि दाशानां नाविकानामपराधादावर्तमानजलेन प्रदेशेन नयतां वा तत्स्थानं ज्ञात्वा दृढबन्धनजलप्रवेशमकर्वतां वध्यादिनहनीभिरयोमयीभिश्चर्मवन्धैः सूत्रबन्धैर्वा शिथिलीकृतवातां यदि भाण्डं विशीर्येत विनाश्येत १५ तदा तैरेव दातव्यं स्वतोऽशतः स्वराजान्नभागाद्भाण्डस्वामिने समागम्य यावन्तो नाव्यारूडा दाशाः ॥ ४०९॥ एष नौयायिनामुक्तो व्यवहारस्य निर्णयः। दाशापराधतस्तोये दौवके नास्ति निग्रहः ॥ ४१० ॥ नौभिर्यान्ति तच्छीला नौयायिनस्तेषामेष विधिरुक्तो यथा दाशापराधादत्त- २० भ्रष्टमुदके तद्दबुर्दैविके दोष उत्पाते वातादिना नौभङ्गे नास्ति नाविकानां द्रव्यनाशे निग्रहः । एष स्थले भाण्डवाहकानां मारिकाणां वा न्यायः यद्यप्रमादेन प्रक्रामति भारिको गहीतदण्डावलंबनो दृढवन्धोपरिभागोकस्मादृष्ट्या पथि कर्दमीकृते पतितस्य भाण्डं नश्येन्न भारिकस्य दोषः स्यात् ॥ ४१० ॥ वाणिज्यं कारयेद्वैश्यं कुसीदं कृषिमेव च ॥ पशूनां रक्षणं चैव दास्यं शुद्ध द्विजन्मनाम् ॥ ४११ ॥ इह केचिन्याचक्षते । अनिच्छन्तावपि वैश्यशूद्रौ बलादेव तानि कर्माणि कारयितव्यौ यत एतयोः स्वधर्मोऽयम् । सत्यपि दृष्टार्थत्वेऽदृष्टार्थता विद्यते नियमविधित्वात् । एवं च सति ब्राह्मणोऽपि हठात्प्रतिग्राहयितव्य इत्यापतति पक्ष एव दोषत्वेनायमुक्त इति चेदत्राप्येष एव पक्षस्तयुक्तम् । सत्यां धर्मार्थितायां शास्त्रतो नियमः । न तु विधिबन्धनैव ३० प्रवृत्तिर्यत्र स्वयं प्रयोजकमस्ति तत्र विधिः प्रयोक्तृत्वं नियमांशे तु विधेापारः । स चेदीदृशो नियमः । वैश्यमेव कारयेद्वाणिज्यमन्यं कुर्वाणमसत्यामापदि दण्डयेत् । एवं ब्राह्मण २५ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy