SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ७१८ मेधातिथिभाष्यसमलंकृता । [ अष्टमः आगमनिर्गमनादेर्द्रव्यस्यानित्यत्वादुपचयापचयावर्धस्यानेकरूपौ । ततोऽर्घसंस्था - पनं पञ्चरात्रे पञ्चरात्रे प्रत्यक्षीकार्य न सकृत्कृतं मन्तव्यं नापि वणिजो विश्वसितव्याः । किंतार्ह स्वयं प्रतिजागरणीयं । यद्दद्द्रव्यं चिरेण निष्क्रामति तत्र पक्षेऽर्घगवेषणमन्यत्र पाञ्चरात्रिकम् ॥ ४०३ ॥ तुलामानं प्रतीमानं सर्व च स्यात्सुलक्षितम् || षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ ४०४ ॥ तुलाप्रसिद्धमानं प्रस्थो द्रोण इत्यादि । प्रतीमानं सुवर्णादीनां परिच्छेदार्थं यत्क्रियते सर्वतोभागे तत्सुलक्षितं राजचिन्हैरङ्कितं कार्यम् । स्वयं प्रत्यक्षेण परिच्छिद्य स्त्रमुद्रया परीक्षयेत् षट्सु षट्सु मासेषु पुनः परीक्षां कारयेदाप्तैरधिकारिभिर्यथा १० न विचालयन्ति केचित् ॥ ४०४ ॥ Acharya Shri Kailassagarsuri Gyanmandir पण यानं तरे दाप्यं पौरुषोऽर्धपणं तरे ॥ पादं पशुच योषिच्च पादार्धं रिक्तकः पुमान् ॥ ४०५ ॥ नदीतीरे यानं गन्त्रीशकटादि तरेण पादं दाप्यम् । भाण्डपूर्णानामुत्तरत्रोपदेशा - द्विक्तभाण्डानां यानानां यानद्रव्यानयनार्थमुत्तार्यमाणानामयं राजभागः । पौरुषवाह्ये १५ भारो द्रव्यानयनार्थमानीयमानोऽर्धपणं दाप्यः । पशुर्गोमहिष्यादिः पादं स्त्रीचरिक्तको न किंचिद्यो गृहीतवान्भारं स पुमान्पादार्धं दाप्यः । रिक्तस्य पुंसो नदीलङ्घनसामर्थ्यासंभावनया लाघवादल्पमादानं । स्त्री अशक्तत्वात्स्वयं तरेण बहु दाप्यते तरे तरनिमित्तम् ॥ ४०५ ॥ भाण्डपूर्णानि यानानि तार्थ दाप्यानि सारतः ॥ रिक्तभाण्डानि यत्किचित्पुमांसश्चापरिच्छदाः || ४०६ ॥ भाण्डं द्रव्यं वस्त्रत्रीह्यादि तेन पूर्णानि यानानि सारतस्तायै तारार्थ दाप्यानि । यदि महार्घं वस्त्रादि तत्र बह्वारोपितं तदा बहु दाप्यानि अथ व्रीह्यादिना नातिचारेण तदालम् | एवं नद्याः सुतरदुस्तरत्वेन कल्पना कर्तव्या । रिक्तभाण्डानि यानानि यत्किचित्पणपादानि। भाण्डशब्दोऽत्र धनवचनः । ये च परिच्छदाकोशतोऽपरिच्छेदास्ते न पादार्धमपि तु २५ यत्किचित्ततोऽधिकं न्यूनं वा अत्र न शक्यो नियमोऽतः कल्पनैव शास्त्रार्थः ॥ ४०६ ॥ दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् ॥ नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥ ४०७ ॥ पारावारोत्तारणे पूर्वे दानम् । अयं नावा ग्रामान्तरगमने । दीर्घाध्वनि योजनादिपरिमाणेनागन्तव्ये । यथादेशं यस्मिन्देशे यत्तरिदानं नाविकैः स्थापितं तदेव । यथाकालं ३० कालो वर्षादि बहूदकस्तत्रान्यन्मूलम् । स्वल्पोदकायां सरिति चिरेण ग्रामप्राप्तौ नाविकानामधिकतरायासवतामधिकमूल्यं तरमूल्ये कारणे कार्यशब्दस्तरे भवेदिति यावद्यावद्दीर्घो देशस्तावत्तरपण वर्धते । एतच्च नदीतीरेषु विद्यात् । समुद्रे सागरे नास्ति तरलक्षणम् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy