SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः मनुस्मृतिः । ७१७ गृह्णाति स्वरूपकान्युपयुज्यन्ते साटकादीनि विंशतिविंशतिभागः प्राविंशतेर्न पाटनमन्तरेणोपपद्यत इत्येवमर्थमर्घकरणमविक्रेयाणामात्मोपयोगिनां नास्ति शुल्क इति ज्ञापितुम् । यथापण्य एव कालानुरूप्येण न सर्वपण्यं सर्वदा विक्रियत एकरूपेणार्पण अतो देशकालापेक्षया पण्यानामर्घव्यवस्था न नियतोऽर्घ इति ॥ ३९९ ॥ राज्ञा प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च ॥ तानि निहेरतो लोभात्सर्वहारं हरेन्नृपः ॥ ४०० ॥ राज्ञः संबन्धितया प्रख्यातानि यानि भाण्डानि राजोपयोगितया यथा हस्तिनः काश्मीरेषु कुंकुमप्रायेषु पट्टोर्णादीनि प्रतीच्येष्वश्वा दाक्षिणात्येषु मणिमुक्तादीनि यद्यस्य राज्ञो विषये सुलभमन्यत्र दुर्लमं तत्र तस्य प्रक्षालनं भवति । तेन हि राजान इतरेतरं संदधते । प्रतिषिद्धानि यानि राज्ञा मदीयादेशान्नैतदन्यत्र नेयं अत्रैव वा विक्रेयं यथा १० दुर्भिक्षे धान्यमित्येवमादीनि । लोभान्निर्हरतो देशान्तरनयतो विक्रीणानस्य वा सर्वहारं हरेत्सर्वहरणं सर्वहारः । अयं धनलोभान्नयतो दण्डः । रानान्तरोपायनार्थ त्वधिकतरः शारीरोऽपि दुर्गावरोधादिः ॥ ४०० ॥ शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी॥ मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम् ॥ ४०१॥ १५ क्रयविक्रयी वाणिज्य उच्यते । शुल्कस्थानं परिहरनुत्पथेन गच्छन्नकाले वा रात्रौ शुल्काध्यक्षेषु गतेषु संख्याने मिथ्यावादी न्यूनं कथयति गणनायाम् । उपलक्षणं चैतत्संख्यानं तेन प्रच्छादनेऽप्येष एव विधिः । दाप्योऽष्टगुणमत्ययं दण्डो यावदपढ़ते तावदष्टगुणं यावान्वा तस्यापद्भुतस्योचितः शुल्कस्तमष्टगुणं दाप्यः । आद्यमेव युक्तम् । अत्ययशब्दो हि तत्र समंजसः तद्धेतुत्वाव्ये । अन्ये त्वकाले क्रयविक्रय इति २० संबन्धं कुर्वन्ति । अकालश्चागृहीते शुल्के रहसि वा प्रतिषेधोऽयम् ॥ ४०१ ॥ आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ ॥ विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ ॥ ४०२ ॥ आपणभूमौ ये विक्रेतारस्ते न स्वेच्छया मूल्यं कर्तुं लभेरन्नापि राजा कोणीयात् स्वरुचिकृतेन मूल्येन । कथं तह दमिदं निरूप्य आगमं किं प्रत्यागच्छति देशान्तरादुत न २५ तथ्यतो दूरादागच्छति । एवं निर्गमस्थाने किं संप्रत्येव विक्रियत उत तिष्ठति । संप्रति निष्कामतो द्रव्यस्य स्वल्पोऽपि लाभो महाफलस्तदुत्थितेन मूल्येन द्रव्यान्तराविषयेण पुनर्लाभो स्थानात् वृद्धिक्षयौ कियत्यस्य वृद्धिस्तिष्ठति कीदृशो वा क्षय इत्येतत्सर्व परीक्ष्य स्वदेशे क्रयविक्रयौ कारयेत् । यथा न वणिनां पीडा भवति नापि केतृणां तथाऽर्घ व्यवस्थापयेत् ॥ ४०२॥ पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथवा गते ॥ कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः॥ ४०३ ॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy