SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१४ मेधातिथिमाध्यसमलंकृता। [ अष्टमः ऋत्विजं यस्त्यजेद्याज्यो याज्यं चत्विक्त्यजेद्यदि ॥ शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् ॥ ३८९ ॥ यज्ञे कर्मकर ऋत्विग्धोतोद्गात्रादिः । यद्यपि वर्णोत्तरकालमाप्रयोगसमाप्तेस्तद्विपदेशस्तथाप्यत्र कर्मणोरितरेतरत्यागे विधिरयं किं तर्हि प्राग्वरणात् । भूतपूर्वगत्या ऋत्विग्न्यव५ हारः यः प्रयोगान्तरे वृतः स एव शक्तः प्रयोगान्तरेऽपि वरितव्यः । न केवलं पूर्ववृतस्यायमत्यांगः किं तर्हि तत्पित्रादिभिरपि । तथाहि 'पूर्वो जुष्टः स्वयंवृत' इति नारदः । न चायमैकपुरुषिको नियमः । किं तर्हि कुलधर्मोऽयम् । तथा च महाभारते संवर्त्तमरुत्तीयेषु प्रपंञ्चितं तेन यत्कुसाः पित्रादिमिर्ऋत्विजो वृतास्त एव वरीतव्याः। याननकाना मप्येष एव विधिस्तैरपि ते योननीयाः । ऋत्विजं कृतात्विज्यं तत्कुलीनं वाऽन्यं यो न १० वृणीत यियक्षुरपि त्वन्यं याजकमर्थयेत् शक्तं कर्माण यज्ञे प्रयोगज्ञमदुष्टमभिशंसनाङ्ग वैकल्यादिभिर्दोषैरयुक्तमेवीदृश एवलिंगच॑मानो यदि नाङ्गीकुर्याद्याजकत्वं अदुष्टमेभिरेव दोषैरनाकान्तं याज्यं शक्तं विद्वत्तया च तादृशे त्यागे तयोः शतं दण्डः । ऋत्विक् शतं दाप्यो याज्यं त्यजन्याज्यऋत्विजम् । न केवलमयमृत्विग्याजकधर्मः शिष्याचार्ययोरपि । तथाच गौतमः-(अ.१२सू.१२.१३.) “अथ याजकावृत्विगाचार्यौपतनीयसेवायां च हेयाव१५ न्यत्र हानात्पतति" इति । दातृसंप्रदानयोरपि प्रतिग्रहे केचिद्धर्ममिममिच्छन्ति ॥ ३८९ ।। न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति ।। त्यजन्नपतितानेतान्राज्ञा दण्ड्यः शतानि षट् ॥ ३९० ॥ माता न त्यागमर्हति । न त्याज्या । त्यागः स्वगृहान्निष्कासनं मातृवृत्तेः सक्ताया उपकारस्योपक्रियायामुदितायामकारणे एवं पित्रादीनामपि व्याख्येयम् । संबन्धे २० साहचर्यास्त्री भार्येवाभिप्रेता । अपतितानामेषां त्यागो नास्ति । मातुस्तु " न मातापुत्र प्रति पततीत्येक इति " शातातपः । भार्यायाश्चापि त्यागः संभोगे गृहकार्यनिषेधः । भक्तवस्त्रादिदानं तु न निषिध्यते । “ योषित्सु पतितास्वपि । वस्त्रान्नमानं देयं च वसेयुः स्वगृहन्तिके ॥” इति पठ्यते ॥ ३९० ॥ आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।। ___ न विब्रूयान्नृपो धर्म चिकीर्षन्हितमात्मनः ॥ ३९१ ॥ वानप्रस्थादीनामरण्याश्रमवासिनामाश्रमेषु कार्य धर्म संकटरूपमयं शास्त्रार्थो नायमिति इतरेतरं विवदमानां न धर्मव्यवस्थां सहसा विब्रूयात्प्रभुतया निर्णयमन्येषामिव न कुर्यात् । कथं तर्हि ? वक्ष्यमाणेन प्रकारेण । एवमात्मने हितं कृतं भवति । शास्त्रार्थत्यागो १फ-अन्यायः २ महाभारते १४१४।३ण-र-सक्तारस्य । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy