________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः।
क्षत्रियायामगुप्तायां वैश्ये पश्चशतं दमः । ____ मूत्रेण मौण्ड्यमिच्छेत्तु क्षत्रियो दण्डमेव वा ॥ ३८५ ॥
वैश्यस्य पञ्चशतानि दण्डः । अगुप्तां च क्षत्रियां गच्छति क्षत्रियस्य स एव यदि वा मौख्यं मुण्डनमृच्छेत्प्राप्नुयाद्र्दभमूत्रेण एष एव वैश्यागमन उभयोर्दण्डः ॥ ३८५ ॥ ___ * अगुप्ते क्षत्रियावैश्ये शहां वा ब्राह्मणो व्रजन् ।
शतानि पश्च दण्डयः स्यात्सहस्रं त्वन्त्यजस्त्रियम् ॥ ३८६ ॥ ब्रामणस्य क्षत्रियाद्यगुप्तास्त्रीगमन उभयोर्दण्डः । अन्त्यजश्चण्डालश्वपचादिस्तत्र सहस्रम् । तत्रायं सहस्रपणदण्डसंग्रहः ब्राह्मणस्य चतुर्वपि वर्णेषु गुप्तागमने सहस्रं श्रोत्रियदारेषु प्रवासनाङ्कने अन्यत्र प्रवासानमेव श्रोत्रियदारेषु प्रायश्चित्तमहत्त्वादेव कल्प्यते । गुप्तागमने पश्चशतानि प्रवासनाङ्कने । यद्यप्यगुप्तापरदाराव्यपदेशो भवति विवाहसंस्कारे १० सति तथापि स्वैरिणी भर्तृस्वतामतिक्रान्ता अब्राह्मणस्य प्राणान्तो गुप्तागमने दण्डो बलात् सकामागमने साहस्रो दण्डः प्रवासनाङ्कने च गुप्तागमने वैश्यं पञ्चशतं कुर्यात्क्षत्रियं सहस्रिणामिति ॥ ३८६ ॥
यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् ॥
न साहसिकदण्डनो स राजा शक्रलोकभाक् ॥ ३८७ ॥ १५ यस्य राज्ञः पुरे देशे राष्ट्रे स्तेनश्चौरो नास्ति स शक्रस्येन्द्रस्य लोकं स्थानं भजते स्वर्ग प्राप्नोति । नान्यस्त्रीगमनमन्यस्य या स्त्री भार्याऽवरुद्धा पुनर्भूर्वा स्त्रीग्रहणमभार्याया अप्यसंबन्धिन्याः प्रतिषेधार्थम् । दुष्टवाक् त्रिविधस्याकोशस्य कर्ता साहसिक उक्तः । दण्डेन हन्ति दण्डपारुण्यकृत् । शकलोकभागिति सर्वत्रानुषङ्गः । स्तेनादीनां शरीरसंग्रहशेषोऽयमर्थवादः ॥ ३८७ ॥
एतेषां निग्रहो राज्ञः पश्चानां विषये स्वके ॥
साम्राज्यकृत्सजात्येषु लोके चैव यशस्करः ॥ ३८८ ॥ साम्राज्यपरः प्राणयितास्वातन्त्र्यं सनातेषु समानयर्द्धिनो राजानः सजात्या अभिप्रेतास्तेषु मूर्द्धन्यधितिष्ठति तस्याज्ञाकराः संभवन्तीत्यर्थः । लोके च यशस्कर इत्युत्पादयन्ति । उभयत्रापि निग्रह एव कर्ता हेतुत्वात् । जनमारकोऽयं कोधन इति वदन्त्यपि २५ तु स्तुवन्ति ॥ ३८८ ॥ * शूद्रोत्पन्नांशपापीयानवं मुच्येत किल्विषात् । तेभ्यो दण्डाहृतं द्रव्यंन कोशे संप्रवेशयेत्॥१॥ अयाजिकं तु तद्राजा दद्याद्भुतकवेतनम् । यथा दण्डगतं वित्तं ब्राह्मणेभ्यस्तु लंमयेव ॥२॥ भार्यापुरोहितस्तेना ये चान्य तद्विधा द्विजाः ॥३॥
१ण-र-विप्रक्षत्रियविप्रस्त्रीरगुप्ता परिव्रजन् । २ ण-र-विना । ३ ण-र-अगुप्तागमन । ४ फ-नौ
For Private And Personal Use Only