________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१२
मेधातिथिभाष्यसमलंकृता।
[ अष्टमः
५
दाट
इति पाठान्तरं प्राणान्ते भवः प्राणान्तिकः अध्यात्मादित्वादृञ् इतरेषां ब्राह्मणादन्येषां क्षत्रियादीनां वर्णानां प्राणान्तिक एव श्रुतं मारणादिपूर्वमेव तदनन्तरमिदमुच्यते उच्यमानं मौण्ड्यं तच्छेषतया सहस्रं दण्डो विधीयत इति मन्यन्ते । अन्यथा ब्राह्मणस्य प्राणांतदण्डविधानात्कः प्रसङ्गो ब्राह्मणस्य येनैवमुच्यते मौण्ड्यं प्राणान्तिक इति पुमांसं दाहयोदति सामान्यविधानप्रसक्तमिति चेत्तत्रैव कर्तव्यं स्यात्तथा हि स्फुटं तद्विषयत्वं प्रतीयते ॥ ३८० ॥
न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ॥ राष्ट्रादेनं बहिःकुर्यात्समग्रधनमक्षतम् ॥ ३८१ ॥
सर्वपापेष्विति प्रकरणविधौ न केवलं संग्रहणे ब्राह्मणो न हन्यते यावदन्येष्व१० प्यपराधेषु । अपिशब्दो युगपत्सर्वपापकार्यपि ब्राह्मणो न जातु कदाचिद्धन्तव्यः। किं तर्हि
तस्य पापकारिणः कर्त्तव्यं राष्ट्रादेनं विषयाब्राह्मणं बहिःकुर्यान्निर्वासयेत् समग्रधनं सर्वस्वसहितं अक्षतमक्षतशरीरं धनमप्यस्य नापहर्तव्यं । कथं तर्हि दण्डो ब्राह्मणस्य केचिदाहुनिर्वासने त्वाधीयमानं सधनं निर्वास्य धनदण्डं प्रतिषेधति । अन्ये तु समग्रं धनं हृतसर्वस्वं कृत्वा निर्वास्यत इति मन्यन्ते ॥ ३८१ ॥
न ब्राह्मणवधायानधर्मो विद्यते भुवि ॥ तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत ॥ २८२॥
पूर्वशेषोऽयमर्थवादः । न ब्राह्मणवधादन्यो बहुतरोऽधर्मो दुःखफलोऽस्ति अन्यशब्दाध्याहारेण पञ्चमी । तस्माद्धेतोरस्य ब्राह्मणस्य राजा मारणमङ्गछेदं वा मनसाऽपि नेच्छेत् ॥ ३८२ ॥
* वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ॥
यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ।। ३८३ ॥ अगुप्ताया ब्राह्मण्यागमने वैश्यः पञ्चशतं कुर्यात्क्षत्रियं सहस्रिणामिति । तत्र वैश्यस्य पञ्चशतो य एव परिपालयति स एव चेन्नाशयति युक्तं तस्य दण्डमहत्त्वम् ॥ ३८३ ॥
सहस्रं ब्रह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ॥ २५ शुदायो क्षत्रियविशोः साहस्रो वै भवेद्दमः ॥ ३८४ ॥
गुप्ते क्षत्रियांवैश्ये गछन्ब्राह्मणः सहस्रं दण्ड्यः । प्रवासनाङ्कने स्थिते एव । शूद्राया गमने क्षत्रियवैश्ययोः साहस्रो दण्डः । सहस्रमेव साहस्रं स्वार्थिकोऽण् । सहस्र वा दण्डोऽस्ति साहस्रो दण्डोऽत्र पदार्थः । मत्वर्थीयोऽण् ॥ ३८४ ॥
* क्षत्रियां चैव वैश्यां च गुप्तां तु ब्राह्मणो व्रजन् ।
न सूत्रमुण्डः कर्तव्यो दाप्यस्तूत्तमसाहसम् ॥१॥ १ण-र-युक्ते।
२०
For Private And Personal Use Only