________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृति: ।
नुपादानात्समानजातीय एव संवत्सरनिरोधनेन दण्डाधिक्यं यदि संवत्सरमवरुद्धं करोति ततोऽयं दण्डः | आद्यमेव तु व्याख्यानं न्याय्यम् । न च समहीनोत्तमानां कथं समदण्डत्वमिति वाच्यं । यत उक्तं " सर्वेषामेव वर्णानां दारा रक्ष्यतमाः सदा " इतिः ॥ ३७६ ॥ ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ ।
वैश्यं पश्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥ ३७७ ॥
अगुप्ता व्याख्याता । भ्रष्टशीलानाथा च । तद्गमने वैश्यं पञ्चशतं कुर्यात् । करोतिः प्रकरणाद्दण्डने वर्तते । दण्डयेदित्यर्थः । पञ्च शतान्यस्येति पञ्चशतः । बहुश्रीहिंर्मत्वर्थीयः । तथा कर्तव्यं यथा पञ्चाशतान्यस्य भवन्ति । किं यदधिकं तत्तस्यापहर्तव्यमित्यथनेति क्रमः । तथा सति यस्य पञ्च वै शतानि धनं वा न्यूनं तस्य दण्डो न कश्चिदुक्तः स्यात् कस्तर्ह्यर्थः । पञ्चशतं कुर्यादिति । दण्डाधिकारा दण्डं पञ्चशत- १० संबन्धिनं कुर्यात् । एवं सहस्रिणं क्षत्रियमिति । सहस्रमस्यास्ति दण्डो न गृहे धनम् । अङ्गसर्वस्वीति व्याख्येयं तथा कर्तव्यं यथाङ्गं सर्वस्वं च तस्य दण्डो भवति क्षत्रियस्याधिको दण्डो रक्षाधिकृतो रक्षति तत्पुनः स एवापराध्यति ॥ ३७७ ॥
उभावपि तु तावेव ब्राह्मण्या गुप्तया सह ।
विद्रुतौ शूद्रवद्दण्डयौ दग्धव्यौ वा कटाग्निना ॥ ३७८ ॥
1
तावेव क्षत्रियवैश्यौ गुप्तया ब्राह्मण्या विद्रुतौ कृतमैथुनौ मैथुनप्रवृत्तावेव विप्रशूद्रवद्दण्डयौ ' गुप्ते सर्वेण हीयत' इति । दग्धव्यौ वा कटाग्निना वा शब्दो वर्धप्रकारविकल्पे वधविकल्पेन । न हि शूद्रगुप्ते वधादन्यो दण्ड आम्नातः ॥ ३७८ ॥ सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विषां बलाद्वजन् ||
For Private And Personal Use Only
७११
१५
२०
शतानि पञ्च दण्ड्यः स्यादिच्छन्त्याः सह सङ्गतः ॥ ३७९ ॥ गुप्ता भ्रष्टाऽपि यदि केनचिद्रक्ष्यते पित्रा भ्रात्रा बन्धुभिर्वा तां हठाद्गच्छन् सहस्रं ब्राह्मणो दाप्यः । गुप्ता शीलवती चेत्प्रवासनाह्वानेनाधिके । अथापि शीलवत्यपि गुप्तशब्देनोच्यते। तथापि सहस्रमात्राद्ब्राह्मणो मुच्यते । अङ्कनप्रवासने सर्वत्र मुखीकिये परदाराभिमर्शे ॥ ३७९ ॥
I
मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषां तु वर्णानां दण्डः प्राणान्तको भवेत् ॥ ३८० ॥ यत्र क्षत्रियादीनां वध उक्तस्तत्र ब्राह्मणस्य मौण्ड्यं यथाऽब्राह्मणः संग्रहणात्प्राणान्तं दण्डमर्हति तथा तु पुमांसं दाहयेदिति प्राणानामन्तं गच्छति प्राणान्तं वा करोति प्राणान्तकः । “ अन्येष्वपि दृश्यते " ( व्या. सू. २|२| १०१ ) इति दण्डः । अन्ये तु प्राणान्तिक
१ ण-र-विप्रकार |
२५