________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
अथवाऽनेकपुरुषस्वामिका ग्रामस्य दास्यसत्रमेव दास्यश्च व्रात्या ये तद्वदहीना व्रात्या मन्यन्ते । तेषां मतेन मुख्यः शब्दार्थः। अयं हि वात्यशब्दः स्मृतिकारैः सावित्रीपतितेषु. प्रयुक्तः न च स्त्रीणां तत्समवः । अथ स्त्रीणां विवाहस्य तदापत्तिवचनादुपनयनं तद्धीनपुरुषवद्रात्या गौणस्तर्हि न मुख्यः । यदि नामोपनयनशब्दोऽनुपनयने विवाहे प्रयुक्तस्तथाप्युपनयनहीनो व्रात्य इत्युक्तेन विवाहहीन इति प्रतीयते । यथाऽसिंहोऽयं देश इत्युक्तेन सिंहशब्दस्य माणवके प्रयुक्तस्यापि देशस्यामाणवकत्वं प्रतीयते । अस्ति तत्र मुख्य इहासंभव इति चेन्नासंभवमात्रनिबन्धना गौणी प्रतीतिः । किं तर्हि संबन्धमपरमुपक्ष्य भवेदुपनयनशब्दो विवाहे गौणः। व्रात्यशब्दस्तु गौण इति को हेतुः । गौणत्वेऽपि विवाहा
भावनिबन्धन इति निरुपपदव्रात्यजापि काकाज्जातः काकः श्येनाज्जातः श्येन इति १० व्रात्येति शङ्कयते । बहुसंबन्धप्रत्यासत्या हि तत्र रूपातिदेशप्रतिपत्तिः । व्रात्यभार्या तु
सत्यपि संबन्धेन ात्यशब्देन शक्याऽभिधातुं सोऽयमित्यभिसंबन्धे हि योगादाख्यायामिति तथा भवितव्यं तावतश्चायं भेदविवक्षायां तद्धितेनेति । तस्माद्यदि गौणो व्रात्यशब्दो गृहीतव्यस्तज्जाताः प्रत्येया अथशब्दार्थे व्रातमर्हतीति विवाहभ्रष्टा तु न मुख्या न
गौणीति न च विवाहकालः स्त्रीणां नियतो यत्कालाअष्टा वात्याः स्युर्यदपि प्रागतो१५ विवाह्याः तदपि स्वयं वरस्य ऋतुमत्या विना तत् परेणाभ्यनुज्ञात एव काममामरणांतं चेद्गृहे कन्या ॥ ३७४ ॥
शूद्रो गुप्तमगुप्तं वा दैजातं वर्णमावसन् । अगुप्तमङ्गसर्वस्वैगुप्तं सर्वेण हीयते ।। ३७५ ॥
शूद्र आचाण्डालात् गुप्तं वर्ण द्वैजातं द्विजातीनां स्त्रिय आवसन्मैथुनेन गछन् २० रक्षिता भर्त्तादिभिः स्वनियमेन दण्ड्यः । को दण्ड इति चेदगुप्तां चेद्गछत्यङ्गसर्वस्वी हीयते।
अङ्गं च सर्वस्वं तद्वत् केन हीयते प्रकृतत्वात्ताभ्यामेवान्यस्यानिर्देशाद्विशेषस्यानुपादानादपराधानन्तरमेवाझं गुप्तं चेद्गच्छति सर्वेण हीयते नैकेनाङ्गेन यावच्छरीरेणापि हान्युद्देशेनाङ्गच्छेदनसर्वस्वहरणमरणान्युपदिष्टानि भवन्ति हानिरस्य कर्तव्येत्यर्थः । तथा च गौतमः (अ.१२सू २-३)"आर्यख्यभिगमने लिङ्गोद्धारः सर्वस्वहरणं च । गुप्तां चेत् ॥३७॥
वैश्यः सर्वस्वदण्डः स्यात्संवत्सरनिरोधतः। सहस्रं क्षत्रियो दण्डयो मौण्डयं मूत्रेण चार्हति ॥ ३७६ ॥
वैश्यस्य सर्वस्वदण्ड उक्तः । इह तु साहचर्यात्सत्यपि द्विजातित्वे न वैश्यस्य समाननातीयागमे दण्डोऽयं किं तर्हि ब्राह्मणक्षत्रिययोरेव । एवं क्षत्रियस्य ब्राह्मणीगमने सहस्र मौण्डयं च मूत्रेणोदकस्थाने गर्दभमूत्रं ग्रहीतव्यम् । अन्ये व्याचक्षते । अन्यस्या१ण-र-दुरुपपद । २ ण-र-प्रत्याहितशब्देन । ३ ण-र-न द्विजेनेति ।
For Private And Personal Use Only