SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः ] मनुस्मृतिः । उपचारक्रियाकेलिः स्पर्शो भूषणवाससाम् ॥ सह खट्टासनं चैव सर्व संग्रहणं स्मृतम् ॥ ३५८ ॥ भूषणं हारकटकादि तदङ्गलनं तदीयमेतद्वेति ज्ञात्वा विनाप्रयोजनेनान्यगृहीतमपि स्पृश्यते । एकस्यां खट्टायामसंसक्ताङ्गयोरपि सहासनं सर्वमेतत्तुल्यदण्डम् ॥ ३५८ ॥ * स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया || परस्परस्यानुमते सर्वे संग्रहणं स्मृतम् ॥ ३५९ ॥ प्रदेशस्पर्शस्य यत्र विनैव तत्स्पर्शनं गमनागमनादि संसिध्यति । महाजनसंकुले न दोषः । यथा शरीरावयवोऽपि देशस्तत्र हस्तस्कंधस्पृष्टभाण्डावरोपणे तत्स्पर्शे न दोषः । ओष्ठचित्रकस्तनादिषु दोषः । तया वा स्तनादिस्पर्शेनोत्पीडितों यदि कस्तत्सहते भवेन्न कार्षीरित्यादिना प्रतिषेधति परस्परस्यानुमते मतिपूर्वमेतत्तस्मिन्नकृते न दोषोऽयम् । न पुनः १० कर्मादौ । खलं पुरुषं कण्ठेऽवलंबते । पुरुषो वा स्तनान्तरे स्त्रियं तद्धस्तगृहीतद्रव्यादानप्रवृत्ताशुल्के पतिष्यामीति । कर्द्दमे पततीति निवेदनस्यापि न दुष्यताम् ॥ ३९९ ॥ अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति ॥ चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा ॥ ३६० ॥ उक्तं संग्रहस्वरूपं । दण्ड इदानीमत्रोच्यते । अब्राह्मणः क्षत्रियादिसंग्रहणे १५ कृते चतुर्णामपि वर्णानां हीनोत्तम जातिभेदमनपेक्ष्य प्राणान्तं प्राणत्याजने मारणे पर्यवसितं दण्डमर्हति । कथं पुनर्ब्राह्मण्यां शूद्रायां च संगृहीतस्य समो दण्डः । अत्र हेतुस्वरूपमर्थमाह । दारा रक्ष्यतमाः सदा । सर्वस्य कस्यचिद्राज्ञा दारा धनशरीरेभ्योऽतिशयेन रक्ष्याः । तुल्ये हि सङ्करे शूद्रस्यापि कुलनाशः । एतदुक्तं भवति । वाचनिकोऽयमर्थोऽत्र हेतुर्वक्तव्यः । कोऽसौ अत्र पूर्वे न्याचख्युर्न सर्वस्मिन्संग्रहणे प्रागुक्तदण्डोऽयं । २० किं तर्हि मुख्ये स्पर्शविशेषे जन्यप्रीतिविशेषात्मके गमने कथं हि तीर्थादिष्वपि वदनं गमनं च समदण्डात्तूपपद्येयातां । तस्माद्ब्राह्मणः शूद्रोऽधिजातिमगने ब्राह्मणे छेदा नान्यः । न हि विषमसमीकरणं न्याय्यमतः स्वप्रागुक्तेषु संग्रहणेष्वनुबन्धाद्यपेक्षया दण्डः कल्प्यः । यत्रैवं निश्चितं गमनार्थ एवायमुपकारः क्रियादिरूपक्रमस्तत्र मुख्यदण्ड एव युंक्तो न ह्यत्र वैषम्यमस्ति । दृष्टं चैतदप्यहत्वाऽपीति । यथेदमुक्तं यत्रायं दण्डो मुख्ये २५ संग्रहणे किं करिष्यतीति नैवान्यन्मुख्यसंग्रहणमस्ति । न ह्यस्य लौकिकः पदार्थोऽवधृतो येन परश्च दस्वकारादौ प्रयुक्त इत्येवमस्यैवायं चाभवन् मुख्यं संग्रहणं मन्यते । तत्र Acharya Shri Kailassagarsuri Gyanmandir * कामाभिपातिनी या तु नरं स्वयमुपव्रजेत् । राज्ञा दास्ये नियोज्या सा कृत्वा तद्दोषघोषणम् ॥ १ ॥ १ ण-र उक्तोऽसौ । २ ण - र प्रत्युक्ते । ८९-९० For Private And Personal Use Only ७०५
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy