________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
૭૦;
" भायातिक्रमर्कारी च रन्धान्वेषणतत्परः । एवमाद्यान्विजानीयात्सर्वानवाततायिनः” ॥ आयान्तमिति वचनादात्तशस्त्रो हन्तुमभिधावन्दारान्वा जिहीर्षन्हन्तव्यः । कृते तु दोषे किमन्यत्करिष्यतीत्युपेक्षा इति ब्रुवते तदयुक्तं । यतः प्रकाशमप्रकाशं चेति " वक्ष्यति । समानौ तौ करिष्यन्कृतवांश्च सृष्टश्चेदिति तस्मादायान्तमित्यनुवादः कर्तुमागतं कृत्वा वा गतमिति | आततायित्वाच्चासौ हन्यते । न च कृतवचन आततायित्वमुपैति । नास्यात्मनो रक्षार्थ एव वध आत्मनश्च परित्राण इति नोक्तम् ॥ ३५१ ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
66
नातताविधे दोषो हन्तुर्भवति कश्चन ॥
प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ।। ३५२ ॥
न कश्वनेति नाधर्मो न दण्डो न प्रायश्चित्तमिति । प्रकाशं जनसमक्षमप्रकाशं विषादिदानेन येनकेनचिदुपायेन । मन्युः क्रोधाभिमानिदेवताऽसौ मन्युमृच्छति । नात्र १० हन्तृहन्तव्यभावोऽस्ति । पुरुषयोरर्थ आततायिक्रोध इतरण हन्यत इत्यर्थवादोऽयं । यथा प्रतिग्रहकामः को मह्यं ददातु नाहं प्रतिग्रहीता न त्वं दाता ततश्च कुतः प्रतिग्रहदोषो मामेवमत्रापीह साहसिके दण्डो नाम्नातः । स दण्डपारुष्ये च द्रष्टव्यः । इह त्वधिकतरो यत उक्तं विज्ञेयः पापकृत इति ॥ ३९२ ॥
परदाराभिमर्शेषु प्रवृत्तानृन्महीपतिः ॥ उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत् ।। ३५३ ॥
1
विवाहसंस्कृतायां स्त्रियां दारशब्दो वर्तते । आत्मनोऽन्यः परः अभिमर्शः संभोग आलिङ्गनारभ्य आलिङ्गनं जनद्वयसमवाय भोगजन्यायाः प्रीतेः प्रवृत्तिः प्रारंभस्तनिवृत्त्यर्थ दूतीसंप्रेषणादिना प्रोत्साहनं । अथ च संग्रहणमभिमर्शनं प्रचक्षते । यमर्थे परभार्यागमने प्रवृत्तं पुरुषं ज्ञात्वोद्वेजनकरैस्तीक्ष्णायैः शक्तिशूलादिभिरङ्कयित्वा नासाछेदादिभि - २० विवासयेत् । सर्वत्रात्र विशेषदण्डस्योक्तत्वादस्य विषयभावो न सामान्यदण्डेोऽयं । किं तर्हि । पुनःपुनः प्रवृत्तौ । इदं तु युक्तं । अलभ्यमानस्य विषयान्तरं प्रवासस्य धनदण्डस्य च कार्यभेदात्समुच्चयः । तथा दर्शयिष्यामः ॥ ३९३ ॥
1
For Private And Personal Use Only
१५
२५
तत्समुत्थो हि लोकस्य जायते वर्णसंकरः ॥ येन मूलहरो धर्मः सर्वनाशाय कल्पते ॥ ३५४ ॥ समुत्थानमुत्पत्तिः । ततः परदारागमनास्संकरोडवान्तरवर्णरूपो जायते । येन जातेनाधर्मो मूलस्य लोकस्य दिवः पतिता वृष्टिस्तां हरत्यधर्मः । धर्मे हि सति “ आदित्या