________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[ अष्टमः अन्ये तु परार्थमप्यस्मिन्नवसरे। तथा च गौतमः "दुर्बलहिंसायां च विमोचने शक्तश्चेदिति"। उक्तं यज्ञविनाशशंकानिवृत्त्यर्थं शस्त्रग्रहणं । निमित्तांतरमाह । आत्मनश्च परित्राणे परिः सर्वतोभावे । शरीरभार्याधनपुत्ररक्षार्य नन्धर्मेण न दुष्यति। दक्षिणानां च संगरोऽवरोधः। यदि यज्ञार्थ कल्पिता दक्षिणाः कैश्चिदपहियेरस्तदा तन्निमित्तं योद्धव्यं । अन्ये खेवमभिसंबदन्ति । दक्षिणानां हेतोः संगरे यदुपरोधः प्रवृत्ते धर्मेऽप्रवृत्ते दक्षिणासंगर इति विशेषाणामभ्यवपत्तिपरिभवः । यत्र स्त्रियः साध्व्यो हठात्केनचिदुपगम्यन्ते हन्यन्ते वा एवं ब्राह्मणाः केनचिद्धन्यन्ते तत्र नन्खङ्गादिना न दुष्यति हिंसाप्रतिषेधातिक्रमो न कृतो भवतीत्यर्थः । असति प्रतिषेधे कामचारप्राप्तौ विध्यन्तरपालोचनया गौतमवचन
मनुध्यायमानेन " दुर्बलहिंसायां विमोचने शक्तश्चेत् " इत्यवश्यं हनने प्रवर्तितव्यं । १० अथ प्रतिहारशङ्का भवति तदा सर्वत एवात्मानं गोपायेदित्युपेक्षा ॥ ३४९ ॥ ३५०॥
आत्मपरित्राणार्थमविचारेण योद्धव्यं । तदनुदर्शयति * गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ॥ आततायिनमायांतं हन्यादेवाविचारयन् ॥ ३५१ ॥
आतताय्युच्यते यः शरीरधनदारपुत्रनाशे सर्वप्रकारमुद्यतः तमविचारयन्न १५ विचारयेत् हन्यात् । गुर्वादिग्रहणमर्थवादः । एतेऽपि हन्तव्याः । किमुतान्य इति ।
एतेषां त्वाततायित्वेऽपि वधो नास्ति । 'आचार्य च प्रवक्तारम् " इत्यनेनापकारिणामपि वधो निषिद्धः । " गुरुमाततायिनमिति ” शक्यः संबन्धस्तथा सत्याततायिविशेषणमेतत्ततो गुदिन्यतिरिक्तस्याततायिनः प्रतिषेधः कुतः स्याद्वाक्यान्तराभावात् । अथ " नात
तायिवधे दोष" इत्येतद्वाक्यान्तरं सामान्येनाभ्यनुज्ञापकमिति तदपि न विधरश्रवणात् २० पूर्वशेषतया चार्थवादत्वे प्रकृतवचनत्वादिह भवतांस्त्वाहुर्यद्यथाऽऽततायिनमित्येव विधिरव
शिष्टोऽर्थवादस्तथापि गुर्वादीनां वधानुज्ञानं यतोऽन्यदपकारित्वमन्यदाततायित्वं यो ह्यन्यां कांचनपीडां करोति स सर्वेण शरीरादिना स्तेयकारीतस्त्वाततायी। तथा च
पठ्यते
" उद्यतासिर्विषाग्निभ्यां शापोद्यतकरस्तथा । आथर्वणेन हन्ता च पिशुनश्चापि राजतः ।।
[अनिदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः॥१॥ [उद्यतासिर्विषानिभ्यां शापोद्यतकरस्तथा॥आथर्वणेन हन्ता च पिशुनथापिराजनि ॥२॥]* [भार्यारिक्थापहारी च रन्ध्रान्वेषणतत्परः । एवमाद्यान्विजानीयात्सर्वानेवाततायिनः॥३॥]
१ ण-र-भवच्छरीर २ ण-र-प्रकारशंका भवति । ३ फ-उद्यतो ! ४ फ-धा। ५ ण-र-अनर्थवादः । ६ ण-र-भवन्तस्त्वाहुः।
For Private And Personal Use Only