________________
Shri Mahavir Jain Aradhana Kendra
१९८
www. kobatirth.org
मेधातिथिभाष्य समलंकृता
[ अष्टमः
1
' तद्दोषगुणविद्धि स इति हेत्वभिधानाद्विदुषां दण्डोऽयं यत्र खलजन एक कार्षापणं दाप्यते तत्राविद्वान् शूद्रोऽष्टगुणामष्टभिः आपाद्यते संबध्यते । यत्किल्विषं पापं तदेवमुच्यते । अष्टभिर्वाऽऽपाद्यत आहन्यते गुण्यत इति यावदुभयथाऽप्यष्ट गुणस्य वाचकोऽष्टापद्यशब्द एवं तदेव द्विगुणं वैश्यस्य स हि साक्षादध्ययनज्ञानयोरधि५ कृ॑तः । शूद्रस्तु कथंचिद्ब्राह्मणापाश्रिततत्सङ्गत्या कियदपि ज्ञास्यति । क्षत्रियस्तु रक्षाधिकारदोषेण समाने विद्वत्त्वे ततोऽपि द्विगुणं दण्ड्यते । ब्राह्मणे तु दण्डविधौ न तृप्यति । चतुःचष्टिशतमष्टविंशं वा शैतमिति । तस्य हि प्रवचनमुपदेष्टृत्वं वाधिकं च रक्षा ततो भवेत् । प्राकृतजनस्य तिर्यक्प्रख्यस्यापराधः । अविद्वांसो गुणदोषानभिज्ञा अकार्ये प्रवर्तते । विद्वानपि तथैव चेद्वर्तेत हन्त हन्त जगत् तृतीयस्य शिक्षितुरभावात्तदुक्तं १० " द्वौ लोकौ धृतव्रतौ राजा ब्राह्मणश्च बहुश्रुत " इति राज्ञः पूर्वेण दण्डाधिक्यमनेन ब्राह्मणस्याधिक्यमात्राविधिश्चायं न यथाश्रुतसंख्याविधिः ब्राह्मणदण्डेऽनवस्थाश्रवणादयं वायं चेति न च विकल्पो युक्तो व्यवस्थाहेतुत्वाभावात् । तुल्यबलस्यैत्र विषयस्यानुपपत्तेः । को हि राजा द्विजगुणमुत्सृज्य चतुःषष्टिं ग्रहीष्यति । यदि परमर्दृष्टार्थे दण्डे विकल्प उपपद्येत न चादृष्टार्थोऽयमित्युक्तं । तथा च गौतमो “ विदुषोऽतिक्रमदण्डभूयस्त्वम् " इत्याह । १५ तस्मादनवस्थाविधित्वं व्याहरन्ति । न च गुणापेक्षो विकल्पो युक्तो नष्टादिश्लोकेनैव सिद्धत्वात् । अर्थवादाचात्र विध्यगतिः स चाधिक्यविधौ लब्धालंबन इति न यथाश्रुतपरिकल्पने विकल्पने समर्थः ॥ ३३८ ॥ ३३९ ॥
२०
Acharya Shri Kailassagarsuri Gyanmandir
वानस्पत्यं मूलफलं दार्श्वध्यर्थं तथैव च ॥
तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ॥ ३४० ॥
वनस्पत एव वानस्पत्यं वृक्षाः । स्वार्थे प्रत्ययः । ग्रासार्थं गृह्यमाणमस्तेयं वंशांकुरादि । मूलफलं वनस्पतीनामन्यद्विससस्यादि त्रादिगणेऽग्रासार्थं मूलफलाहरणे दण्ड उक्तः । अस्तेयवचनं प्रासार्थ मात्रार्थमक्षीणवृत्तरेपि कथंचिज्जातलौल्यस्य स्मृत्यन्तरदर्शनात्स्वापरिवृत्तेश्च दण्डः । तथा च गौतमः “ पुष्पाणि स्ववदाददीत फलानि चापरिवृत्तानाम् " इति । दोषार्थमाहिताग्नेरसंनिहिते वनस्पताबुद्वात्यग्नौ तद्धारणार्थं २५ काष्ठमदोषं पालाशीर्वा समिधो व्यादध्यात् । अप्रचुरपलाशे च ग्रामे कथं स्यादित्यादि गृह्येरन्न दोषः । तृणं च गोभ्यः । तादर्थे चतुर्थी । गोग्रहणात्प्रस्तारार्थं दोष एव । ये तु ग्रासार्थपदेन गवामभिसंबन्धमिच्छन्ति तेषां गोभ्य इति नोपपद्यते । षष्ठी हि तंत्र युक्ता ॥ ३४० ॥
१ फ-रपि कृतशूद्रस्तु । २ ण-र-मागतमिति । ३ ण - रविप्रतौ । ४ ण-र-तुल्यवद्विकल्पस्य चैव परविषयाश्रयसानुपपत्तेः । ५ फर्थो । ६ ण-र-नुबन्धादि । ७ ण - र - अर्थवदास्वात् विध्यवगतिमाधिक्यविधो लधाम्बन इति । ८ ण-र-न्यत्यर्थम दोषः । ९ ण-र-स्वस्तेनार्थं । १० फ तत्प्रयुक्ता ।
For Private And Personal Use Only