________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६९७
अध्यायः]
मनुस्मृतिः। तथा च " सुलभेष्वधिकारनिवृत्तिमकुर्वत्सु यागाङ्गद्रव्येष्वपह्रियमाणेषु कुशकारकाग्निहोत्रद्रव्यान्यपहरतोऽङ्गच्छेदः स्यात् " इति शङ्खः । अग्निषु तु हृतेष्वधिकार एव निवर्तते । तत्र कथं महान् दण्डो न स्यात् ॥ ३३४ ॥
येन येन यथाङ्गेन स्तेनो नषु विचेष्टते ॥ __ तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥ ३३५॥ भूयोभूयः प्रवृत्तस्यायं दण्डः । यो धनेन दण्डितोऽपि न मार्गेऽवतिष्ठते तस्य त्रिचतुर्दण्डितस्यानवतिष्ठमानस्य द्रव्यजातिपरिमाणानपेक्षः सन्विच्छेदाधनपेक्षचौर्यक्रियामौत्राश्रितोऽङ्गच्छेदः । यस्य यस्याङ्गस्य बलमाश्रित्यावतिष्ठते स्तेनश्चौर्ये प्रवर्तते तत्तदस्य हरेच्छिन्द्यात् । यथा कश्चित्पादबलमाश्रित्यावष्टभ्य पलायते न मामनुगंतुं कश्चिदपि शक्नोतीति तस्य पादच्छेदः । अन्यः संधिभेदः । अन्यः संधिभेदैज्ञोऽहं तस्य हस्तच्छेदः। १० प्रत्यादेशाय प्रतिरूपफलदर्शनाय स्वावष्टंभेन साभिमानं सक्रोधं सावज्ञं न्यकरणं वा । प्रत्यादेशो य एवं करोति तस्य तस्याहमेवं कर्तेति व्याख्यापनं प्रत्यादेशः ॥ ३३५ ॥
पिताऽऽचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः ॥
नादण्डयो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ ३३६ ॥ भार्यापुत्रः स्वका तनुरात्मीयं शरीरं कः पुनरात्मनो दण्डः प्रायश्चित्ततपोधन- १५ दानादिविचलितो धर्मः स्वकान्यो यः स्वधर्मान्न तु तिष्ठति स सर्वो दण्डः ॥ ३३६ ।।
कार्षापणं भवेद्दण्डयो यत्रान्यः प्राकृतो जनः ॥
तत्र राजा भवेद्दण्डयः सहस्रमिति धारणा ॥ ३३७ ॥ प्राकृतो जनः सामान्यपुरुषो यो नातिगुणसंयुक्तस्तस्य यत्र यस्मिन्नपराधे यावान दण्डस्तत्सहगुणो राज्ञः कार्षापणग्रहणस्य दण्डपरिमाणोपलक्षणार्थत्वात् दण्डस्य चात्मान- २० मनियम्य परो नियन्तं न शक्यत इति युक्तं प्रत्यपराधे राज्ञो दण्डौहत्वं । महाधनत्वादपं दण्डं न विगणयेत् । राजाधिकृतानां मन्त्रिपुरोहितादीनामनयैव कल्पनया न्यूनाधिकभावः धनधण्डश्च ब्राह्मणेभ्योऽप्सु प्रवेशनेन वरुणाय वा यतो वक्ष्यति राज्ञां दण्डधरो हि सः ॥ ३३७ ॥
अष्टापाद्यं तु शूद्रस्य स्तेये भबति किल्बिषम् ॥ षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च ॥ ३३८ ॥ ब्राह्मणस्य चतुःषष्टिः पूर्ण वाऽपि शतं भवेत् ॥
द्विगुणा वा चतुःषष्टिस्तदोषगुणविद्धि सः॥ ३३९ ॥ १ण-र-णामपरहतो । २ फ-भूतेषु । ३ फ-मसावाश्रितो । ४ फ-प्रसिद्धि । ५ फ-व्याख्यानं । ६ फ-फ-भ्रातापुत्रः। -र-स्विका । ८ ण-र-सधर्मान्ननुतिष्ठति समार्थी दण्डः । ९ण-र-नाति. सजादि गुण । १० ण-र-दृष्टयार्थत्वात् । ११ फ-मपि । १२ ण-र-दण्डयत्वं । १३ फ-योतावत् ।
For Private And Personal Use Only