________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
निरन्वयं । सति तु रक्षाक उभयापराधादरपो दंडः । खलस्थेषु धान्येष्वयं दण्डः । तत्र हि परिपूर्यते । गृहस्थेषु त्वेकादशदगुणः प्रागुक्तः ॥ ३३२ ॥
स्यात्साहसं त्यन्वयवत्प्रसभं कर्म यत्कृतम् ॥
निरन्वयं भवेत्स्तेयं हृत्वापव्ययते च यत् ॥ ३३३ ॥ ___परद्रव्यापहरणं स्तेयमुच्यते। धात्वर्थप्रसिद्धया चास्यैव कर्ता स्तेनः। तस्य कर्तव्येन इह तु विशेषेणायं व्यवहार इप्यते तदर्थोऽयं श्लोकः । न परद्रव्यादानमात्रं स्तेयं। ऋणादाननिक्षेपादिप्वपि स्तेयदण्डप्रसङ्गात् । संज्ञाभेदो दण्डभेदार्थः। अपहृत्य यत्तेन मया कृतमित्याह कर्म यत्कृतं परपीडाकरं वस्तूत्पाटनाग्निदाहद्रव्यापहरणादि। अग्निदाहे यद्यपि द्रव्याप
हरणं नास्ति तथापि चौर्यमेव रहसि करणादपह्नवाच्च मन्यन्ते। चौर्य हि द्रव्यविशेषाश्रयो १० दण्डः । सोऽत्र न स्यात् । एवमर्थमेव स्तयप्रकरणे लक्षणं । स्तेयं प्रसभं कर्मेति '
कर्मग्रहणाव्यापहारादन्यदप्येवं कृतमयुक्तं साहसमेव । कस्तीग्निदाहादावप्रसभं कृते दण्डः । कंटकशुद्धौ वक्ष्यामः । अत एवमन्विच्छेदसत्यपि द्रव्यापहरणे कण्टकशुद्धौ दण्डमामनन्ति अन्यथा एवं वक्ष्यते ॥ ३३३ ॥
यस्त्वेतान्युपकप्तानि द्रव्याणि स्तेनयेन्नरः ॥
तं शतं दण्डयेद्राजा यश्चाग्निं चोरयेद्गृहात् ॥ ३३४ ॥ एतानि सूत्रादीन्युपक्लप्तानि प्रत्यासन्नदानोपभोगादिकार्यकालानि । अथवा संस्कृतानि कृतसामर्थ्याधानानि । यथा तदेव सूत्रं तन्तुवायहस्ते वायनार्थ दत्तं किंचिद्विगुणीक्रियते किंचित्परिवर्त्यते एवं दधिमन्थनमरिचशर्करादिसंस्कृतं क्षीरं घृतमित्यादिसंस्कारस्तत्र शतं दण्डः । आद्यमिति पाठे प्रथमसाहसः । अनि,हात् परिगृहीतं शालाग्निहोत्रेत्यादिकं हेमन्ते वा सीतार्दितानां दरिद्राणामप्रणीतमप्यग्नेरुपकल्पनं पाककालः शीतादिनिवृत्त्यर्थ वा तापनकालः । अविशेषेणायमग्नेर्दण्डः । स्वल्पस्य बहोरुपक्लप्तस्यानुपंक्प्तस्य च । सत्यपि सूत्रादिदण्डे । आदिग्रहणेनाग्नेस्तन्मूल्यादि संभवति । क्रयविक्रयव्यवहाराप्रसिद्धेः । यावता वेन्धनेनाग्निरुपहृत्य परिमाण उत्पद्यते यावतीभिर्दक्षिणाभिस्त
न्मूल्याट्विगुणो दण्डः संभवति शक्यते व्यपदेष्टुं तुष्टयुत्पत्तिश्च स्वामिनः स्थितैव । २५ अतस्त्रेताग्निहरणे यावत्पुनराधाने गच्छति प्रायश्चित्तेष्टौ च तावदग्निमते दातव्यः । अतो.
ऽयमग्नेर्दण्डः शात्प्रणीताग्निविषय एव स्वल्पत्वात् । त्रेतायां तु तन्मूल्याद्विगुण इति ।
१ ण-र-कृतानापहृते । २ + ण-र-किंतर्हि न च त्वयं आरक्षिपुरुषेण वर्जितमनिज्ञातेन यः क्रियते तचौर्य । दघथा कृत्वापिचेत्तापन्हुते यत्तेत्कृतमिदं तन्मयेति विद्यायान्यत्र संकिप्त्या इति । न तचौर्य किंतर्हि स्यान्न साहसं अन्वयवत् मारक्षप्रदेशेप्रसभं प्रसप्तप्रकाशं तथा कृतमध्यमपन्हुते चेत्सेयमेव संज्ञाभेदोदंडभेदामहि । ३ ण-र-वक्ष्यत् । ४ फ-अग्नीन्धन । ५ ण-रअप्रमणीतयपि । ६ ण-र-त। ७ ण-र-दाप्यः । ८ण-र-शालान्ये । ९ण-र-तुल्यगुण इति ।
२०
For Private And Personal Use Only