SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः । मनुस्मृतिः । ६९५ सूत्रकासकिण्वानां गोमयस्य गुडस्य च ।। दनः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ ३२७ ॥ वेणुवैदलभाण्डानां लवणानां तथैव च ॥ मृण्मयानां च हरणे मृदो भस्मन एव च ॥ ३२८ ॥ मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च ॥ मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम् ॥ ३२९ ॥ अन्येषां चैवमादीनामद्यानामोदनस्य च ।। पक्कान्नानां च सर्वेषां तन्मूल्यादिगुणो दमः ॥ ३३० ॥ सूत्रमूर्णासणादि । लवणानि सैंधवबिडलवणादीनि । यच्चान्यत्पशुसंभवमामिपादिति अन्येषामपूपमोदकादीनां । आदिशब्दः प्रकारे । प्रकारः सादृश्यं तुल्यता सदृश. १० कार्यकरणोपयोगादिरूपा । तथा च सर्पिमण्डेाखण्डशर्करा किलाटकूर्चिकाद्या अपूपा गृह्यन्ते । पशुसंभवं राङ्कवाजिनाद्यपीच्छन्ति केचित् । आदिग्रहणात्प्रकृतिर्विकृतिरपि । प्रकृति यच्चोभयोपादानं दन्नः क्षीरस्य चेति तदुदाहरणार्थ । एवं मूत्रग्रहणेन सूत्रमयं वासोऽपि गृह्यते । नलिकादीनां सत्यपि सूत्रमयत्वे पशुसंभवत्व उत्तमत्वादुत्तमानां चेत्त्वयमपवादविषयः । प्रकृत्यन्तरे तैलशब्दः स्नेहवाची । न तिलविकार एव । तेनातसी- १५ प्रियङ्गुपञ्चाङ्गुलतैलादयोऽपि गृह्यन्ते ॥ ३२६ ॥ ३२७ ॥ ३२८ ॥ ३२९ ॥ पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च ॥ अन्येष्वपरिपूतेषु दण्डः स्यात्पञ्चकृष्णलः ॥ ३३१॥ . नवमालिकादीनि पुष्पाणि हरन्ति । धान्यं क्षेत्रस्थं अपक्वं नगा वृक्षाः । अन्येष्वपरिपूतेषु बहुवचनात्परिपवनाय च धान्यं क्षेत्रेष्वेव तुषपलालादिविमोक्षरूपयोः २० संभवादुत्तरश्लोके धान्यग्रहणमेवाकृष्यते । गुल्मादीनां हि सत्यपि पलाशे व्यामिश्रत्वे पुष्पाणां च परिपूतव्यवहारः । सप्तमी हरणापेक्षा । तत्त्वं पूर्वस्मादनुवर्तते । अत्र पञ्चकृष्णलो दण्डः । कृष्णलानां द्रव्यजातिः । अल्पत्वमहत्वप्रयोजनापेक्षा सुवर्णस्येति पूर्वे ।। ३३१ ॥ परिपूतेषु धान्येषु शाकमूलफलेषु च ॥ निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः ॥ ३३२ ।। मूलमिक्षुद्राक्षादि । निरन्वये द्रव्यहरणे । अन्वयोऽनुनयः । स्वामिनः प्रीत्यादिप्रयोगः। यत्त्वदीयं तन्मदीयमेवेत्यनया बुध्द्याऽहं प्रवृत्तो न चेदेवं तद्गृहाणेत्येवमादिवचनं तद्यत्र न क्रियते तन्निरन्वयं । साहसप्रकारत्वादधिको दण्डः । अन्वयेन सह सान्वयः। येन सह कश्चिदपि संबन्धो नास्त्येकग्रामवासादिस्ततः शतं दण्ड्यः । अथवा अनारक्ष १ण-र-दीनि। २ फ-नापि सत्ये । ३ फ-वादिकोदण्डः । ४ ण-र-देः For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy