________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[ अष्टमः
सर्वत्राहत्यर्थो योजनीयः । अकुलीनानामवशिष्टानाममुख्यानां च विशेष त्वेकादशगुण इत्येव ॥ ३२४ ॥
महापशूनां हरणे शस्त्राणामौषधस्य च ।।
कालमासाद्य कार्य च दण्डं राजा प्रकल्पयेत् ॥ ३२५ ॥
महापशवा हस्त्यश्वादयः । तेषां हरणे कालकार्यापेक्षा दण्डप्रक्लप्तिः । ननु च सर्वत्रैव कालाद्यपेक्षोक्ता । तथा च कालदेशवयःशक्तीश्चिन्तयेद्दण्डकर्माणीति । सत्यं । विज्ञाते दण्डस्वरूपे न्यूनाधिकभावोऽनुबन्धाद्यपेक्षः । यथा वधविधौ ताडनमारणादिकल्पनापेक्ष्या इहात्यन्तविलक्षणो दण्डः । तथा हि विंशतिपणोऽपि खड़शत्रोरुद्यतशस्त्रस्य
सन्निधौ यदि हियेते तेन कार्यातिशयेन तेन च कालेन मारणं दण्डः । अन्यदा द्विगुण १० एकादशगणो वा । तथौषधमलभ्यत्वेन महाप्रयोजनं तदुपयोगवेलायां हियते । लोल्यमानमपि
क्वाथाद्यपेक्षं कालातिक्रमणेन महदातुरस्य दुःखं जनयतीति । तत्र महान्दण्डः । अन्यदा तु स्वल्प इति । न यंत्रान्तरामन्तरेणेदृशं वैषम्यं लभ्यते । अन्यथा स एवैकः श्लोको दण्डविधौ पठितव्यः स्यात् । तस्माद्वक्तव्यमिदं विग्रहकालेऽश्वादीनां राज्यापेक्षो
दण्डः । शस्त्राणां राजोपयोगिनां कदाचित्क्षमा कदाचिन्महान्दण्डः । गोमहीण्यादीनां त १५ प्रजासंबन्धिनां न राज्ञा क्षन्तव्यं कार्यं च यदश्वादिभिः कर्तव्यं तदप्यपेक्षं । विग्रहोऽपि
यदि पर्वतादौ भवति यत्र नातीवाश्चैः प्रयोजनं भवन्त्येव दण्डादयः । कालमासाद्य ज्ञात्वा निरूप्य दण्डं कल्पयेत्स एवात्र प्रभवति न शास्त्रम् ॥ ३२५ ॥
गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने ।
पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः ॥ ३२६ ॥ २०
ब्राह्मणसंस्था ब्राह्मणाश्रिता ब्राह्मणस्वामिकाः । तासां हरणे षष्ठ्यर्थे सप्तमी । पशूनां चा डंकादीनां बहुवचनं सर्वत्रात्र विवक्षितं । सद्यस्तत्क्षणादविचार्य । पादयधिमर्धपादं तदस्यास्तीत्यर्धपादिकः । तच्च संभवति यदि पादाध तेन छिद्यते तेनार्धपादछेदनं कर्तव्यमिति वाक्यार्थः । छुरिका यया गोरक्षक्षेत्रादौ वाह्यते बलीवर्दः । भेदने वाह्यमानायाः प्रतोदेन पीडोत्पादनं भेदनं वाहानामुपलक्षणार्थं व्याचक्षते । पूर्वोऽवश्यं वाहयन्दुःखयति अवश्यमयं दण्ड इत्येवान्ये पठन्ति । अन्ये तु पादस्य पश्चाद्भागं चतुर्थ खरिकामाहः । खरिकेति या प्रसिद्धा । पलायनशीलायाः पालोऽर्धपादिकः कार्यः । अन्ये त्वधिकरणसप्तमी मत्वा गोसंस्थध्यादीन्यध्याहरन्ति । तदयुक्तं । श्रुतपदसंबन्धसंभवे कृतोऽध्याहारः ॥ ३२६ ॥
१ण-र-वय्यर्थे । २ ण-र-निर्जिते । ३ ण-र-पेक्षा । इहात्येन । ४ णर-वेशस्नरुद्यत । ५ ण-रहृदयनेन । ६ ण-र-तथौषधं समंकुरं आतुरेसति । ७ फ-लभ्यमानमपि । ८ फ-नयनान्तरमन्तरेण । ९फ-कर्तव्यं । १० ण-र-ण । ११ ण-र-अर्धः पादः । १२ फ-खरिक; ण-र-स्फुरिका । १३ ण-र-पलोन्योवभिंदन नद्धपादिकः ।
For Private And Personal Use Only