________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
नियम्यते । शेषेषु दशसु प्राकृतस्तत्त एकादशगुणो दण्डः । तत्तस्य च तद्धनमिति सर्वत्र स्तेये योज्यं । धान्यं त्रीहियवादिसप्तदशानीति स्मर्यते ॥ ३२१ ॥ तथा धरिममेयानां शतादभ्यधिके वधः ॥ सुवर्णरजतादीनामुत्तमानां च वाससाम् || ३२२ ॥
1
घरणं धरिमा तुला | तेन मीयन्ते परिच्छिद्यन्ते तानि धरिममेयानि । घृतादीनां ५ द्रवाणां प्रस्थादिमेयताऽस्तीति कठिनानां परिमेयता भवतीति तदर्थमाह । सुवर्ण - रजतादीनां । आदिग्रहणादेव रजते लब्धे पुनरुपादानार्त्तुल्यग्रहणार्यात्प्रवालादानि गृह्यन्ते । न तु ताम्रलोहादीनि । तेषां शतादूर्ध्व हरणे वधः । किं पुनरेतच्छतं पलानामुत कर्षाणामेव कार्षापणानां वा । केचिदाहुः पलानामिति । न त्वत्र विशेषो हन्तुरस्ति तस्माद्यस्मिन्देशे धरिममानकाले यथासंख्यया व्यवहारः । श्रुतमिदं सुवर्णस्य क्वचित्तोलके कचित्पदेषु १० यथादेशं व्यवस्था । उत्तमानां च वाससां कौशेय पट्टादीनामिति । नन्वत्र विशेष हेतुरस्ति । तस्माद्यस्मिन् शतादभ्यधिके वधः केचिदाहुः । पलानामिति । न त्वत्र विशेष हेतुरित्यनुषङ्गः । अत्रापि शाकटकयुगमेकमिति संख्यायते । पुष्पपटापबर्हणं त्वेकमेवेति । ननु च सुवर्णरजतादीनामित्येव सिद्धे परिमेयग्रहणमनर्थकं । नानर्थकं कर्पूरागरुकस्तूरिकादीनां महार्घाणां ग्रहणार्थं । आदिग्रहणाद्धि तैजसानि गृह्यन्ते । निष्कादिपरिमाणव्यपदेश्यानि १५ वा। न हि कर्पूरादीनां कर्षादिव्यपदेशोऽस्ति । यद्यपि सुवर्णवद्रजतेऽपि शतसंख्या तथापि प्रायश्चित्तभेदवद्दण्डभेदोऽपि युक्तो विषमसमीकरणस्य न्याय्यत्वादतो यावत्सुवर्णगतस्य मूल्यं तावति रूपे गृहीते वधः । कर्पूरादीनां तु पलानामेव शतसंख्या ॥ ३२२ ॥ पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते ॥
२०
शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥ ३२३ ॥ सुबोधोऽयं । मूल्यादिति नापहृतमेव द्रव्यं देयं क्वचित्तज्जातीयं नैव प्राप्यते । अतो रूपकैधन्यादिना वा निमेयम् ॥ ३२३ ॥
पुरुषाणां कुलीनानां नारीणां च विशेषतः ॥ मुख्यानां चैव रत्नानां हरणे वधमर्हति ॥ ३२४ ॥
६९३
सत्कुले जाता विद्यादिगुणयोगिनः कुलीनाः नारीणां च विशेषतो गुणरूपसौ- २५ भाग्यतः संपन्नानामित्यर्थः । चशब्दात्कुलीनानामित्येव । परस्परे|पेक्षाणि नारीणां विशेषणानि । मुख्यानि उत्तमानि । रत्नानि वज्रवैडूर्यमरक्तप्रभृतीनि । अत्रापि सुवर्णशततुल्यानीत्यपक्ष्यमन्यथोत्तमत्वमापेक्षिकमिति व्यवतिष्ठतं । वधमर्हत्यनुबंधाद्यपेक्षया
For Private And Personal Use Only
४ ण-र
७
१ ण-तजुत्यमूल्यग्रहणार्थ-र-तत्तुल्य । २ ण-र-तेन । ३ ण-र-कर्षाणामेव वा । शतमिदं । ५ ण-र-संख्याने पुष्पपुरान्युपवर्षगं तु कणनैकमिति । ६ ण-र-गृह्येरन् । १ ण-र-कर्पू रादि । ८ ण-र- सुवर्णस्थ । ९ ण-र-परस्परानपेक्षाणि । १० ण - रक्षामन्यतोत्तमत्वमापेक्षि । ११ ण-र-ते ।