________________
Shri Mahavir Jain Aradhana Kendra
६९२
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
यदुक्तं पापकारिणो निग्रहणे कर्मकृतो रक्षन्त इति तत्स्फुटयति । धृतो विनिपातिते दण्डो येषां राजभिस्ते कृत्वा पापानि कृतपापा राजनिग्रहेण निर्मला निरस्तपापा भवन्ति । अपगते च पापे यदेषां स्वर्गारोहिकं कर्म तेन स्वर्ग प्राप्नुवन्ति । महद्धि पापं शुद्धस्य कर्मणः फलस्य प्रतिबन्धकं । सुकृतिनो नित्यं सुकृतकर्मकारिणः । यथा सत्री धार्मिकस्तद्वदसतामधर्मो नैवोत्पद्यत एषामुत्पन्नो निग्रहणेन विना स्थित इति । प्राक्प्रध्वंसाभावयोर्विशेषो मानवग्रहणानुप्रकरणाचौराणामेव । दण्डशब्दस्तु शारीरनिग्रहविषयो न हि प्रकरणमतिक्रामति । धनदण्डो हि राजार्थः । वृत्तिर्हि या राज्ञः शारीरे तु दण्डे दण्ड्यमानार्थता शक्यते निह्नोतुं । त्वक्संस्कारो हिंसा । अथैयं बुद्धिः पालनमेव हिंसामन्तरेण न निष्पाद्यते तच्च राजार्थमिति कुतो मार्यमाणार्थता मारणस्य । अथ किं पालनं न १० पाल्य मानार्थदृष्टमेवापहूयते । न हि तद्रष्टुमुपादेयं राज्ञेवं स्वरक्षार्थ करशुल्कादिभृत्या उपादीयन्ते । अतः सुतरां रक्षोपयोगित्वं हिंसायां हिंस्यमानार्थता सिद्धिः । कथं वा हिंसया विना नै रक्षानिवृत्तिर्यदि तावदेवमर्थं निगृह्यन्ते पुनरकॉर्यमावर्तयिष्यते तन्निबोधनादपि शक्यते नियंतुं । अथ तान् गृहीत्वा तान्दृष्ट्वा भयादन्येने प्रवर्तयिष्यंत इति धनदण्डेनापि शक्यते 'दुःखयितुं हन्यमानेष्वपि सहस्रशः प्रवर्तन्ते । तस्मादियं हिंसा १५ रक्षा सती हिंस्यमानसंस्कार इति मन्तव्यं । अतश्च कारणादिछेदने नियमो हस्त्यादिविधिश्व दंड्येऽदृष्टमाधास्यति न राजार्थो भविष्यति । तस्माच्छरीरदण्डे पापमुक्तिर्न धनदण्ड इति स्थितं । तथा च महापातकिनां हृतसर्वस्वानामप्सु प्रवेशितदण्डानां संव्यवहारपरिहारार्थमङ्कनं वक्ष्यति। यदि च धनदण्डेन शुध्येयुः पुनरङ्कनमनर्थकं स्यात् । अत्र च स्वयमागतस्य नानीतस्य विशेषो यः स्तेन एवं विशेषो भवतु । इदं तु सर्व शारीरदण्डविषयम् ॥ ३१९ ॥ यस्तु रज्जुं घटं कूपाद्धरेद्भिद्याच्च यः प्रपाम् ॥
स दण्डं प्राप्नुयान्माषं तच्च तस्मिन्समाहरेत् ॥ ३२० ॥
५
२०
www. kobatirth.org
२५
Acharya Shri Kailassagarsuri Gyanmandir
प्रपिबन्त्यस्यामिति प्रपा | जलाधारस्थावस्थानं उद्धृतजलनिधानं वा । माषस्य जातिर्न निर्दिष्टा । स मरुजाङ्गलानुपभेदा द्रष्टव्या । तच्च रज्ज्यादि समाहरेद्दद्यात्तस्मिन् स्थाने न राजनि ॥ ३२० ॥
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ॥
शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् || ३२१ ॥
कुंभशब्दः परिमाणविशेषे वर्तते न घटमात्रे । क्वचिद्विशतिप्रस्थान्कचिद्वाविंशद्वाविंशतिरिति देशभेदाध्यवस्था । दशभ्योऽधिकं हरतो वधविधिरुक्तार्थोऽनुबंधादिना
१ फ-वृत्त । २फ - तत्स्वं । ३ - फ तद्रष्टु । ज्ञे । ५ फ- करमुद्दिश्य । ६ ण-र-रक्षानिवृत्तिः । ७ ण-र-यें । ८ फ- तानि । ९ फ-ने । १० ण-र-दुःखइतुंः फ-दुःखमपि तु । ११ ण-र - दण्डपापा• न्मुक्तिः । १२ ण-र-संव्यवहार्म । १३ फ-बन्धनडण्डेन |
For Private And Personal Use Only