________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
६९१
" न
1
हिंस्याद्भूतानीति " सामान्यतः प्रतिषेधो विधिविशेषमन्तरेण न शक्यो बाधितुं । अथोच्यते । नैवायं प्रतिषेधस्य विषयः । कर्मार्थत्वात् । कथं पुनरन्तरेण विधिं कर्मार्थता शक्याऽवगन्तुं । लोकत इति चेलौकिकी तर्हि प्रवृत्तिः । कथं तर्हि प्रतिषेधस्तत्रावतरेत् । ननु च प्रदाने प्रवृत्तिर्निरूप्यतां । यदि तावद्वैदिकी प्रवृत्तिस्ततस्तदङ्गे हिंसायामपि तत एव एका हि प्रवृत्तिरन्तरङ्गप्रधानयोः । अथ लिप्सातोऽङ्गेऽपि तत्र प्रवृत्तिः । सुतरां तर्हि हिंसेयं लौकिकी । जीविकार्थिनो हि प्रजापालनाधिकारनियमोऽत्र॑ वेधः । तेनेयमङ्गस्थापि हिंसा मुख्येन तुल्यत्वात्प्रतिषेधविषयः । न च लौकिकमस्या नियतमङ्गत्वं । नो हिंसामन्तरेण प्रजापालनमशक्यं । निरोधादिनाऽपि शक्यत्वात् । नैष नियमः एकरूपाङ्गप्रधानयोः प्रवृत्तिरिति स्यान्नाम्नीषोमीययोरनेन विशेषः स्यादतो लिप्सालक्षणेऽपि प्रधाना विधिलक्षणमभ्युपेतव्यं । न चैष हिंसाविधिः । लक्षणा १० शक्याऽभ्युपगन्तुं स्वरूपस्य कार्यस्य च लौकिकत्वात्पालनस्य हिंसायाश्च । अथ विधिलक्षणा षोडशग्रहणवद्विकल्पितुमर्हति । शासनवचनेन प्रतिषिद्धा । अन्ये तु मन्यन्ते ।
66
11
वाक्ये | शासनादिति स्तेनस्य बुद्धिरुच्यते । परेणार्धेन राज्ञस्तदशासने दोषः । तत्र यदि राजा शासनदोषमात्मन्यङ्गीकृत्य मुंचेन्मुच्येतैवैनसः । एवं ब्राह्मणस्यापि स्वयमागतस्य वधशुद्धिहेतोर्लक्षणं शास्त्रभृतामिति वचनात् । न शारीरो ब्राह्मणदण्ड : ' इति ( गौतम सू. १२।४३ ) । न राजा यदि प्रतिषेधातिक्रमेण हन्याद्वाह्मणः शुध्येदेव । अशा सित्वा मुशलादिभिरहत्वा स्तेनस्य यत्पापं तेन युज्यते ॥ ३१७ ॥
१५
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ||
गुरौ शिष्यश्च याज्यश्व स्तेनो राजनि किल्बिषम् ॥ ३९८ ॥
अन्नमत्तीत्यन्नादो भ्रूणहा ब्रह्महा तदीयमन्नं यो भुङ्क्ते तस्मिंस्तद्ब्रह्महत्यापापं मार्ष्टि २० निरस्य रस्यति श्लेषयति । यथा मलिनं वस्त्रमुदके मृज्यते तन्मलं तत्र संक्रामत्येवं अर्थवादश्चायं । तस्य तत्पापमुत्पद्यते । न पुनर्ब्रध्नो विशेष्यति । पत्यौ भर्त्तरि भार्याप चारिणी जारिणी स चेत्क्षमते । अत्रापि भर्तुरुत्पाद्यते पापं न तत्र तस्या अपैति । गुरौ शिष्यश्च याज्यश्च शिष्यः सूर्याभ्युदितादिभिरपराध्य तुं पुरौ क्षममाणे तत्पापं प्रक्षिपति । एवं याज्ये याजकः । सोऽपि गुरुरेवेत्यतो याजकग्रहणं न कृतं । एवं चौरो राजनि । न २५ चेद्राज्ञा निगृह्यते याज्योऽपि कर्मणि प्रवृत्ते विधिर्मुकामति चेद्याजकवचनेनार्वतिष्ठते तदा त्याज्यो न पुनस्तस्य ताडनादि शिष्यवत्कर्तव्यं । अन्नादादिषु सर्वेष्वन्यत्र विधिरस्तीति नाशुद्धिरतोऽर्थवादोऽयम् || ३१८॥
राजभिः धृतदण्डास्तु कृत्वा पापानि मानवाः ।।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ३१९ ॥
१ फ-पोषणा । २फ - न विधिः । ३ ण-र-स्थामपि हिंसाख्येन । ४ फ-पिधानेऽहं । ५ फमात्मीयमंगी । ६ फ-मुंचेतैवैनसः । ७फ - वधः शुद्धिहेतुः लक्षं । ८ ण-र-ब्राह्मणं शुद्धेव । ९ फ-ब्राह्मणो विशेषः । १० ण-र-न । ११ ण-र-अप । १२ ण-र/ उप । १३ फ - कृत ।
For Private And Personal Use Only