________________
Shri Mahavir Jain Aradhana Kendra
१०
www. kobatirth.org
६९०
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
1
कर्तव्या । अकामिनो यथाकामी अत आह । यत्तु प्रभुरहमित्यभिमानेन न सहते तेन नरकं प्राप्नोति । आर्त्तग्रहणं बालवृद्धयोरपि प्रदर्शनार्थं पूर्वशेषत्वादस्य || ३१४ ॥ राजा स्तेनेन गंतव्यो मुक्तकेशेन धीमता ॥ आचक्षाणेन तत्स्तेयमेवं कर्मास्मि शाधि माम् ।। ३१५॥
१५
Acharya Shri Kailassagarsuri Gyanmandir
अविशेषोपादाने सुवर्णहारी स्तेनो द्रष्टव्यः । तस्यैव शास्त्रान्तरे गमनविधानात् । ने वेदनमागमनपरं विधिशास्त्रदण्डविधित्वात् । उक्तं हि " स्तेनैस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णय " इति । अतोऽनुवादमगमनस्यात्र राजसकाशं सुवर्णचौरेण गंतव्यं । मुक्तकेशेन धीमता धैर्यवता । धावतेति पाठान्तरम् । आचक्षाणेन कथयता पथितत्पातकमेव कर्मास्मि ब्राह्मणस्य मयेयेत्सुवर्ण हृतमिति कुरु निग्रहं मे ॥ २१९ ॥ * स्कन्धेनादाय मुसलं लगुडं वाऽपि खादिरम् | शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ।। ३१६ ॥
वर्णानामनुक्रमेण मुसलादीनामुपदेशं मन्यन्ते । तदयुक्तं । वा शब्दो न समर्थितः स्यात् । न च ब्राह्मणस्येदं प्रायश्चित्तमिच्छन्ति । तत्प्रायश्चित्तेषु निरूपयिष्यामः । खदिर्जातिर्लगुड एव । न मुशलेनानुषक्तव्यः || ३१६ ॥
शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते ॥ अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् || ३१७ ॥ शासनान्मुशलादिभिः प्रहरणात्क्षत्रियादिः पापान्मुच्यते । विमोक्षादुत्सर्गात् । गच्छ क्षान्तमिति " ब्राह्मणस्तपसैवेति " वघतपसी विहिते । तत्र वधस्तावद्ब्राह्मणस्य नास्ति । तपस्तु प्रायश्चितं । न च तप इच्छातो राजाभिगमनमस्ति । तस्मात्क्षत्रियादीना२० मेष विमोक्षः । स च धनदण्डं गृहीत्वा । यत आह अशासित्वेत्यादि । न च विमोक्षणशुद्धौ सत्यां राज्ञस्तदशासनाद्दोषोपपत्तिः । न च शासनमपि विहितं मोक्षोऽपि विहितः । तत्र यस्मिन्पक्षे शासनं तदपेक्षं दोषवचनं । पाक्षिकं हि तथा कल्पेत् । न च नित्यवच्छ्रुतस्य पाक्षिकत्वं युक्तं कल्पयितुं । तथा च सामान्येन वसिष्ठादय आहुः ।
""
अमेन स्वीयेन ऋच्छति राजानमुत्सृजन्तं सकिल्विषन्तं चेज्याद्यतो राजाऽन्नन्धर्मेण न २९ दुष्यति । नायं विकल्पो युक्तः । क्वचिदियं हिंसा प्रतिषिद्धो । “ न हिंस्याद्भूतानीति गादिना पुरुषार्थतया प्राप्ता क्वचिद्विहिता । त्वर्थत्वेन यो दीक्षितो यदग्नीषोमीयमिति । इयं तु शासनविमोक्षणवञ्चना । न हि नाम प्रतिषिद्धायुक्तौ सति विधौ कथं न प्रतिषेधो
I
[ गृहीत्वा मुसलं राजा सकृद्वन्यात्तु तं स्वयम् ।
वधेन शुध्यते स्तेनो ब्राह्मणस्तपसैव वा ॥ १ ॥ ]
१ फ-धावता । २ ण-र-नवेदागमानंतरं विधिशास्त्रदण्डविधित्वात् । १३ ण-र - दोमगमन्यात् ।
४ फ-वर्यवता । ५ फ-षत् । ६ ण-र-इच्छासनं । ७ फ-छूतं पाक्षिकं । ८ फ-कल्पो । ९ ण-र-+न हिंसा प्रतिषिद्धा १० ण-र-रणादिना । ११ ण-र-नहि नमप्रतिषिद्धायतो मतिबिधो कथं न ।
For Private And Personal Use Only