________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
६८८
मेधातिथिभाष्यसमलंकृता ।
[ सप्तमः
1
राजानः संबध्यन्ते । तानि निगृह्णणतः अदृष्टदोष संबन्ध निवारणमपि रक्षाणा रक्षैव । तत्राधिकृतस्य राज्ञस्तदकरणाद्युक्तः प्रत्यवायः । ननु च भृतिपरिक्रीतत्वाद्धर्मषड्भागर्मयुक्तम् । उक्तं दीनानाथपरिव्रजितादयः सन्त्यैकरप्रदाः । परिपूर्णस्वधर्मपालेन कानुपपत्तिः ॥ ३०९ ॥ यदधीते यद्यजते यद्ददाति यदर्चति ॥
Acharya Shri Kailassagarsuri Gyanmandir
तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् ॥ ३०६ ॥
यदुक्तं सर्वर्तं इति तस्य च प्रपंचोऽयं । अध्ययनादयो धर्मार्थतयाऽन्यत्र ज्ञापिताः प्रसिद्धरूपाश्च । अर्चनं देवगुरूणां पूजनं । तस्येति कर्मणोऽध्ययनादेः पदार्थस्येति योजनीयं । क्रियायाः स्त्रीलिङ्गत्वात् । षड्भाग इति वचनं कर्तुः पञ्चकर्मफलांशात् षष्ठो नृपतेः समग्रकर्मफलभोक्तृत्वस्याधिकारतः कर्तुरवगतत्वात् । अपि तु सम्यग्रहणात्स्वकर्मानुष्ठाना१० त्तावन्मात्रं राज्ञः फलमुत्पद्यत इति नान्यकृतस्य शुभस्याशुभस्य वा अन्यत्र गमनं नाकर्तुः फलमस्तीति स्थितम् ॥ ३०६ ॥
रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन् ॥ यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥ ३०७ ॥
भूतानि स्थावरजङ्गमानि चौरेभ्यो रक्षन्वध्यांश्च शास्त्रतो वधार्हास्तांश्च घातयन् १५ सहस्रशतदक्षिणानां पौण्डरीकादीनां ऋतूनां फलमन्वहं राजा प्राप्नोतीति स्तुतिः ॥ ३०७॥ योsरक्षन्बलिमादत्ते करं शुल्कं च पार्थिवः ॥
प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥ ३०८ ॥
बलिप्रभृतीनि राजग्राह्यकरनामानि देशभेदे सूपे माणवकवत्प्रसिद्धानि तत्र बलिधन्यादेः षष्ठो भागः करो द्रव्यादानं शुल्कं वणिक्प्राप्यभागः । प्रतिभागं फलभरणिका२० द्युपायनं राजैतद्गृह्णाति चौरेभ्यश्च न रक्षति स सद्य आयुः क्षयान्नरकं गच्छेत् । गृहीत्वा राजभागं रक्षा कर्तव्या । नरकायुः क्षयभयादिति श्लोकतात्पर्यम् ॥ ३०८ ॥ अरक्षितारं अत्तारं बलिषङ्गागहारिणम् ॥
तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥ ३०९ ॥
पूर्वस्य शेषोऽयं निन्दार्थवादः । न रक्षति अत्तोपजीविता प्रजानां राजभागग्रहणेन । २१ एतदेव स्पष्टयति । बलिषङ्गागहारिणं तं तादृशं राजानपाहुः शिष्टाः सर्वलोकस्य सर्वस्याः प्रजायाः समग्रं बलं पीपं तस्य हारकं स्वीकर्तारं सर्वेण प्रजापापेन दूर्यंत इत्यर्थः ॥ ३०९ ॥
१ फ-नृपति । २ ण-र-वचनमुक्तं । ३ फ र सत्य । ४ ण-र-पालक | ५ ण-रपालनात् । ६ ण- र कर्मत | ७ ण- र कर्तुरेव मतत्वात् । ८ ण-र-श्रुति । ९ फ-राजानं । १० फ - अर्थवादः । ११ र-पातं । १२ ण-र-नर युज्यते ।
For Private And Personal Use Only