________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ] मनुस्मृतिः।
६८७ साधनोपलक्षकतया विवादे पदेऽन्विताओं नामधेये पूर्वपदं । स्तेनस्य चौरस्य दण्डभेदानतःपरं वक्ष्यामीत्युपसंहारोपन्यासार्थः श्लोकः ॥ ३०२ ।।
परमं यत्नमातिष्ठेत्स्तेनानां निग्रहे नृपः॥
स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते ॥ ३०३ ॥ कश्चित्करुणावान् क्रूर हिंसा कर्मेति मन्यमानो न प्रवर्तते । अतस्तत्प्रतिपत्त्यर्थं स्तेन- ५ निग्रहस्तुत्यर्थवादः प्रक्रम्यते। नात्र हिंसादोषोऽस्ति प्रत्युत दृष्टढाष्टोपकारहेतुत्वात्स्तेनहिंसैव श्रेयस्करी । वेदतुल्यता च ख्यापयितुमर्थवादा भूयांसस्तत्र हि प्रायेण सर्वार्थवादका विध्युद्देशा इति तत्प्रतीत्यनुसरणेन वैदिकोऽयमर्थ इति प्रसिद्धिः । भवन्ति चात्र केचित्प्रतिपत्तारो ये स्तुतिभिरितितरां प्रवर्तन्ते । परमं यत्नं प्रकृष्टमतिशयवत्तात्पर्यमाश्रयेच्चरैश्चारयेत् साक्षात्प्रकाशं चातिप्रयत्नतः । स्तेनाश्चौराः । निग्रहो नियमनवध- १० बन्धनादि । एवं कृते यशः ख्यातिर्भवति । निरुपद्रवोऽस्य राज्ञो देशः स्तेना नाभिभवन्ति निशा दिवा तुल्या तत्रेति सर्वत्र स्थितं भवति । राष्ट्र वर्धते । राष्ट्रं जनपदस्तस्मिन्निवासिनश्च पुरुषाश्चौरैरनुपद्रूयमाणा वर्धन्ते । श्रीभिः प्रमोदमाना बहुपर्यन्ते देशान्तरस्था अपि निरुपद्रवं राष्ट्रमाश्रयन्ते । ततो वर्धते ॥ ३०३ ॥
अभयस्य हि यो दाता स पूज्यः सततं नृपः ॥
सत्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥ ३०४ ॥ अभयं चौरादिभ्योऽधिकृतेभ्यश्चासद्दण्डनिवारणेन यो ददाति स सर्वदैव पूज्यो भवति । स्वैरकथास्वपि राज्याच्च्युतो वनस्थोऽपि । सत्रं ऋतुविशेषो गवामयनादि । तदस्य वर्धते निप्पद्यते । सर्वाङ्गमुत्पन्नमेवंगुणमित्येतद्वर्धत इत्यनेनाहरहः सत्रफलं प्राप्नोतीत्यर्थः । अभयं यत्र दक्षिणा । अन्येषु सत्रेषु दक्षिणा नास्ति । इदं तु सर्वेभ्योऽपि २० विशिष्टं । यदक्षिणया वत्सगवाश्चादिभिर्ये पुष्यन्ते तदरक्षातो राज्ञामधर्मो यावद्ये हरन्ति दक्षिणाविलक्षणेत्यर्थवान्सत्रव्यतिरेकः ॥ ३०४ ॥
सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः ।।
अधर्मादपि षड़ागो भवत्यस्य ह्यरक्षतः ॥ ३०५ ।। सर्वतः प्रकाशाद्यज्ञादेः तथा ग्रामवासिभिः वनवासिभिश्च कृताकृताद्धर्मषड़ागं राजा २५ लभते । एवमधर्मादपि चौरेः प्रछन्नकृताद्राज्ञः षड्भागो भवति न केवलं स्तेनैयें मुच्यन्ते । तदरक्षातो राज्ञामधर्मो यावद्ये हरन्ति तेषामपि चौर्यभावेनाधर्मोदयस्तदंशेनापि
१फ-विनयदाने विवक्षितार्थः । २ ण-र-विवर्धते। ३ ण-र-प्रवृत्त्यर्थ । ४ ण-र-प्रीत्यनु । ५ फ-ऋतु। ६ फ-मित्येव तद्धर्मते। ४ ण-र-स्तेनैव ।
For Private And Personal Use Only