________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८६
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
वचनः । हिंसामात्रेण दण्डमिममिच्छन्ति । न प्रकृतया न विधिहेतुं ब्रुवते । तत्र दण्डो विचारित इत्यनेनैव यानप्रकरणं व्यवच्छिन्नं । विचारितः समाप्तविचार इत्यर्थः । इदानीमेतत्प्रकरणनिरपेक्ष्यमुच्यत इति । एवं तु " प्राणभृत्सु महत्स्वर्धमिति " हस्तादिच्छेदो न मारणमित्यर्धशब्दो नेयः स्मृत्यन्तरात् ॥ २९८ ।।
गर्दभाजाविकानां तु दण्डः स्यात्पाञ्चमाषिकः ॥ माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने ॥ २९९ ॥
पञ्च माषाः परिमाणमस्येति पाश्चमाषिकः। माषस्य च द्रव्यजातेरनपपादनान्मध्यमकल्पनायाश्च न्याय्यत्वाद्रौप्यस्य निर्देशोऽयमित्याहुः । हिरण्यं तु युक्तमेवं तत्सममिति नापि वाधिकं भवति। अनुबन्धाद्यपेक्षया तु द्रव्य जातिः कल्प्येति सिद्धान्तः ॥ २९९ ॥
भार्या पुत्रश्च दासश्च प्रेक्ष्यो भ्राता च सोदरः॥ प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ ३०० ॥
प्राप्ता अपराधं प्राप्तापराधा अपराधो व्यतिक्रमः । नीतिभ्रंशः। स यदा तैः कृतो भवति तदा ताडयितव्याः । ताडनमपि हिंसेत्युक्तं । सा च "न हिंस्याद्भूतानीति" प्रतिषिद्धाऽपराधे निमित्ते भार्यादीनां प्रतिप्रसूयते । संबन्धिशब्दाश्चैते । यस्य भार्या यश्च यस्य दासः स तेनानुशासनीयः । मार्गस्थापनोपायविधिपरश्चायं । न ताडनविधिरेव । तेन वाग्दण्डाद्यपि कर्तव्यं । अपराधानुरूपेण कदाचित्ताडनम् । सोदरस्थाने कनीयान्पठितव्यः । भ्राता तथानुमः । स हि ज्येष्ठस्य पुत्रवत्ताडनाहः । वैमात्रेयोऽपि चेदपितृको गुणवज्ज्येष्टतन्त्रश्च सोऽप्युन्मार्गगमी ताडनादिपर्यन्तैरुपायैर्निवारणीयः । वेणुदलं वंशत्वक् । एतदप्युपलक्षणं तथाविधानां मृदुपीडासाधनानां शिष्यादीनाम् ॥ ३० ॥
पृष्ठतस्तु शरीरस्य नोत्तमाओं कथंचन ॥
अतोऽन्यथा तु प्रहरन् प्राप्तः स्याञ्चौरकिल्बिषम् ॥ ३०१॥ उक्तताडनसाधनाभ्यामन्येन प्रकारेण नन्नक्षादिषु लगुडादिभिर्वा चौरदण्डं न प्राप्नोति। निन्दैषा । न त्वयमेव दण्डः । योऽन्यत्र हिंसाया दण्डः सोऽत्र भवतीत्युक्तं भवति ३०१ २५ एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः॥
स्तेनस्यातः प्रवक्ष्यामि विधि दण्डविनिर्णये ॥ ३०२ ॥
एष निःशेषेणोक्तो दण्डपारुष्यनिर्णयो दण्डव्यवस्था । दण्डशब्दो हि १ण-र-विचरित । २ ण-र-शिष्यो। ३ फ-ने। ४ ण-र-वत्यादिषु ।
For Private And Personal Use Only