SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । पुनः स्थिरयतश्चेन्निकटो रथस्तेन च तस्य वेगनिरोधे कृते यदि पुरोरथस्थावेर्गपातापशुभी रथयुक्तैरवादिभिः रथेन रथावयवैर्वा प्राणिनो मनुष्यादीन्मारयेत् ततो दण्डस्य विचारो नास्ति | स्थित एव दण्डः । अथवा जवोत्पतिता अश्वाः पथि संरोधकसंमुखीनरथदर्शनेन बलाद्विधार्यमाणास्तिर्यग्गत्या गच्छेयुः पार्श्वकीयाः प्रत्यगवस्थितत्वात्तथा हन्युस्तत्र दण्डो विचारितो नास्ति प्राजके दोषाभावात् । अथवा पथितो न स्थितो वर्तमानः संरुद्धो ५ न विधियमाणोऽथवा विचारितो विशेषेण विहितो विशेषित इति चेत् ॥ २९६ ॥ मनुष्यमारणे क्षिप्रं चौरवत्किल्विषं भवेत् ।। प्राणभृत्सुमहत्स्वधै गोगजोष्टृहयादिषु ।। २९७ ।। ६८५ तादृशे प्राजके रथपशुभिर्मानुष्यश्चेन्मार्यते तदा चौरवत्तस्य किल्बिषं वा दण्डः । यद्यपि चौरस्य वधः सर्वस्वहरणादयो दण्डास्तथापीह धनदण्ड एव गृह्यते न वधः । १० महत्स्वर्धमिति तत्रैवार्धसंभवात् । स चोत्तमसाहसः । कैश्चिदभ्युपगतो यतश्च क्षते क्षुद्रकपशूनां तृतीयस्थानप्राप्तानां द्विशतो दमोऽतः प्रथमस्थानां मुख्यौनामुत्तमो युक्त इति । प्राणभृतः प्राणवन्तो मनुष्यतिर्यक्पक्ष्यादयः । महत्सु महत्त्वं गवां प्रभावतो हस्त्यादीनां प्रमाणतः । आदिग्रहणाद्गर्दभाश्वतरव्याघ्रादयश्च कथंचित्परिगृह्यन्ते । वयं तु ब्रूमः ‘सहस्रम् ' इत्येवमवक्ष्यत् । यद्यन्ये चौरवद्दण्डानामभिप्रेता अभविष्यन् तस्मादर्घग्रहणाद्देधा १९ माभूद्ध दण्डास्तु सर्वस्वहरणादयः सर्वे चौरोक्ताः पुरुषापेक्षयातिदिश्यन्ते । ननु च मनुष्यमारणे कस्य चौरदण्डः स्यादिति व्यतिदेशो युक्तः । सँ प्रतिपदं मनुष्यहनने विहितः । स च पुरुषाणां कुलीनानामिति वध एव । तत्र किमिति वाक्यान्तरगतार्धशब्दानुरोधिनैव व्याख्यायते । वरमंर्धस्यैव गुणतः कदाचिद्वृत्तिराश्रीयतां । सत्यं यद्धर्मशब्दो मारणेन संबध्यमानोऽन्यथोपपद्यते न च चैौरवदित्यस्यानुषङ्गागतस्यार्थान्तरवृत्तिः २० पूर्वापरवाक्ययोः शक्या ॥ २९७॥ क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ॥ पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ २९८ ॥ अपठित परिमाणाः ः क्षुद्रकाः । ते च केचिद्वयसः वत्सकिशोरककलभादयः । केचि - ज्जातिस्वभावतोऽजैडकादयः । तत्राजाविकानां पञ्च माषान्वक्ष्यति । परिशेषाणां गवादी- २९ नामेवायं दण्डोऽल्पपरिमाणानाम् । शुभा मृगात्तष्पृष्ठादयः । आकारतो लक्षणतश्च । पक्षिणो हंसशुकसारिकादयः । अशुभाः काकोलूकश्च श्रृगालादयः । पशुशब्दश्चतुष्पाज्जाति For Private And Personal Use Only १ण-र-द्वेगपातात् । २ ण-र-मुक्तैः । ३ ण-र - विधितः सौविशोषित । ४ ण-र-प्रथम. स्थानानां । ५ फ-फ-मनुष्याणां । ६ ण-र-गरैः । ७ण-र-तं । ८ ण-र-वर्धस्यैव । ९ण-रअर्थावृत्तिता । १० ण - र- अपचित ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy