SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [अष्टमः छेदने चैव यन्त्राणां योकरश्रम्योस्तथैव च ॥ आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ॥ २९३ ॥ नासायां भवं नास्यं । शरीरावयवाद्यत् नासिकापुटसंयोगिनी बलीवानां रज्जुरश्वानां खलीनं हस्तिनामङ्कुशस्तस्मिन् छिन्ने त्रुटिते युगे च भग्ने रथाङ्गकाष्ठं युगं । छिन्न नास्यमस्येति बहुव्रीहिणा रथ उच्यते । पशुर्वा । उभयोरपि साक्षात्पारंपर्येण संबन्धात् । तिर्यमतिमुखागते याने तिरश्चीनं वा प्रतीचीनं वा कथंचिद्भूवैषम्यात्पशुत्रासाद्वा यानं गच्छेत् कंचिदपराध्येन्न दुष्येत् । प्राजको हि संमुखीनाञ्छत्तो रक्षितुं तिर्यक् प्रत्यगवस्थितौ त्वदृश्यमानस्य कथं रक्षितुं प्रतिमुखागतं प्रत्यगावृत्तिः । अन्ये तु तिर्यगागते हिंस्यमाने ऋजुगामिन्येन यानेन दोषमाहुः । प्रतिमुखं चाभिमुखं मन्यन्ते । अभिमुखागतः किमिति चक्रिणं दृष्ट्वा पन्थानं न ददाति । अक्षचक्रे रथाङ्गे प्रसिद्धे । यन्त्राणि चर्मबन्धनानि शकटकाष्ठानां । यो पशुग्रीवाकाष्ठरश्मिः । प्रग्रहो हस्तवधियुग्यानां संचरणनियमनार्थः । आक्रन्द उच्चैः शब्दोऽपहीत्यपसरेत्यर्थः । इतिकरणो भाषाप्रसिद्धतदर्थशब्दोच्चारणार्थो न त्वयमेव शब्दः प्रयोक्तव्यः । अविधेयेषु युग्येष्वपसरापसरेति क्रोशतः प्राजकस्य पथो नातिक्रामन्यदि हिंस्यान्न दोषः ॥ २९३ ॥ यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु ॥ तत्र स्वामी भवेद्दण्डयो हिंसायां द्विशतं दमम् ॥२९४ ॥ प्राजको यानसारथिस्तस्य वैगुण्य मशिक्षितत्वं न तु प्रमादः । प्रमादे हि शिक्षितस्य स्वामिनो न दोषः । तस्माद्धेतोर्यदि युग्यं सहसाऽपवर्तते स्पष्टं मार्ग हित्वा तिर्यक् पश्चाद्वा गच्छेगवां च किंचिन्नाशयेत्तत्र स्वामी दण्ड्यः । अशिक्षितः प्राजकः किमि२० त्यारोपितः । “ मनुष्यमारणे क्षिप्रम्" इत्यादिवक्ष्यमाणेन प्राणिभेदेन द्रव्यभेदेन च दण्डान्तरविधानाद्विशत इति विवक्षति । दण्डनिमित्तमेतदित्येतावतैव वाक्यस्यार्थतत्वादुत्तरत्र न कश्चिदन्योऽर्थः श्रूयते । येन वाक्यं तत्र संख्याविधायकमित्युच्यते ॥२९४ ॥ प्राजकश्चद्भवेदाप्तः प्राजको दण्डमर्हति ॥ युग्यस्थाः प्राजकेऽनाप्त सर्वे दण्ड्याः शतं शतम् ॥२९५ ॥ स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा ॥ प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः ॥ २९६ ॥ उक्तो हिंसायां दमः । तत्र विशेषं वक्तुमिदमाह । स प्राजकः पथिसंरुद्धोऽग्रनघनावसर्पिणा संरुद्धो निरुद्धगतिः पश्चास्थितनासुशिक्षितत्वात्प्रमादाद्वा वेगेन धुर्याश्चोदिताः १ण-र-खलीनां । २ फ-यानाङ्गत्वे । ३ फ-युग्मं । ४ अग्रे २९७ श्लो. । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy