________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः।
द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा ॥
स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच तत्समम् ॥ २८९ ॥ द्रव्याणि गृहोपकरणाद्यन्यानि वाऽनुक्तदण्डविशेषाणि शूर्पोलूखलघटस्थालीपिठरादीनि तेषां हिंसा प्राग्रूपनाशः । सत्यपि कार्यक्षमत्वे ज्ञानतोऽज्ञानत इति प्रमादकृते बुद्धिपूर्व चाविशेषेणीहिंसता तम्य द्रव्यस्वामिनो जनयेत्परितोषं तद्रूपान्यदानेन मूल्येन प्रणयेन ५ वा । राज्ञे तु द्रव्यमूल्यं द्रव्यं वा दद्यात् । अस्य क्वचिदपवादः ॥ २८९ ।।
___चर्मचार्पिकमाण्डेषु काष्ठलोष्ठमयेषु च ॥ ___ मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥ २९० ॥
चर्मचार्मिकयोर्द्वन्द्वं कृत्वा भाण्डपदेन विशेष्येण समासः । अथवा धार्मिकभाण्डयोविशेषणसमासं कृत्वा चर्मशब्देन द्वन्द्वः। चर्मविकाराचार्मिकाणि भाण्डानि कटिसूत्रवरत्रादीनि १० चर्माण्यविकृतानि गवादीनां । अथवा चर्मभाण्डानि केवलचर्ममयानि चविनद्धानि चार्मिकाणि । काष्ठमर्यंभाण्डान्युलूखलमुसलफलकादीनि । लोष्ठो मृद्विकारः पाषाणाकृतिः पिण्डीभूता मृत्तन्मयानि स्वल्पपाकाधानादीनि । तन्नाशने मूल्यात्पञ्चगुणो दण्डस्तुष्टयुत्पत्तिश्च स्वामिनः स्थितैव ॥ २९० ॥
यानस्य चैव यातुश्च यानस्वामिन एव च ॥
दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ॥ २९१ ॥ सत्यामपि हिंसायां क्वचिद्दोषो नास्तीत्येतदनेन प्रकरणेन प्रदर्श्यते । यानं गन्व्यादि यदारुह्य योन्ति पन्थानं । तच्च गव्यादिवलीवर्दगर्दभमहिषादिवाह्यं । त एव वा गर्दभादयः पृष्टारोह्या यानानि याता तदारूढः सारथ्यादिः। यानस्वामी यस्य तत्स्वयानं तत्रैषां चक्रवेगादिभी रथ्याकर्षणयुक्तैर्वाऽश्वादिभिः कस्यचिद्रव्यस्य नाशो वा मरणं तत्र पशु- २० स्वामियानव्यतिक्रमन्याय प्राप्ते कदाचिद्यातुर्दोषः कदाचित्स्वामिनः कदाचिदुभयोः कदाचिन्न कस्यचिदपीति यो विशेषस्तत्र नोक्त इहैवेष्यते स उच्यते । अतिक्रम्य हिंसादण्डं वर्तते । नात्र दण्डोऽस्ति । दण्डनिमित्तानि न भवन्तीति यावत् । शेषे दण्ड उक्तेभ्यो निमित्तेभ्यः । अन्यत्र तान्यपि वक्ष्यते ॥ २९१ ॥
यत्र नास्ति दोषस्तानि तावदाह छिन्ननास्ये भग्नयुगे तिर्यमतिमुखागते ॥
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ २९२ ॥ १फ-न्य।२फ-मा।३ण-र-अहिंसिसिनां।४ ण-र-राज्ञा । ५ण-र-चार्मीक।६ण-र-विशेषेण । ७ण-र-विशेष । ८ ण-र-नयानि । ९ ण-र-गम्यते । १० ण-र-पाल ! ११ फ-वक्ष्यति ।
For Private And Personal Use Only