SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १० ६८२ मेधातिथिभाष्यसमलंकृता । [ अष्टमः निर्वासनं वा । दण्डविध ह्यर्थशास्त्रश्रवणं दृश्यते । तथाहि दशबन्धमिति बार्हस्पत्य औशनस्येच प्रयोगः । निर्वासनं ब्राह्मणस्य नान्येषाम् ॥ २८५ ॥ www. kobatirth.org २० Acharya Shri Kailassagarsuri Gyanmandir वनस्पतीनां सर्वेषामुपभोगं यथा यथा ॥ तथा तथा दमः कार्यो हिंसायामिति धारणा ॥ २८६ ॥ वनस्पतिग्रहणं सर्वस्यावरप्रदर्शनार्थं । फलपुष्पपत्रच्छायादिना महोपभोग्यस्य वृक्षस्य हिंसायां विनाशमाह दण्ड उत्तमसाहसः । स मध्यमस्य मध्यमो निकृष्टस्य प्रथमस्तथा स्थानविशेषो द्रष्टव्यः । पत्रच्छेदः फलच्छेदः शाखाछेद इति । फलानामपि विशेषो महार्घता दुष्प्रापता। तथा स्थानविशेषोऽपि द्रष्टव्यः । सीम्नि चतुष्पथे तपोवन इति ॥२८६ मनुष्याणां पशूनां च दुःखाय प्रहृते सति ॥ यथा यथा महद्दुःखं दण्डं कुर्यात्तथा तथा ॥ २८७ ॥ यदुक्तं त्वग्भेदक इति तस्य विशेषोऽयं । असति मनुष्यग्रहणे प्राणिमात्रहिंसाविषयत्वेSस्य श्लोकस्य महापशूनां क्षुद्राणां च पशुपक्षिमृगाणां तुल्यदण्डता मा भूदिति तदर्थमिदं । यथा यथा महद्दुःखमिति । स्वल्पे भेदने शोणिते च प्राणिनां महत्त्वादल्पत्वं प्रहारस्य १५ शतादूनोऽपि दण्डमर्हति । शतादभ्यधिकोऽपि । अन्ये तु महदुहणान्महति दुःखे दण्डवृद्ध्यर्थं नाल्पेऽपचयार्थं यथाश्रुतमेव । तत्र दुःखाय प्रहृते दुःखोत्पत्त्यर्थे प्रहारे प्रमादस्तु न वृद्धिः । अनुबन्धं परिज्ञाय " इति अस्यैव लोकद्वयमुदाहरणं भङ्गया व्याख्येयम् ॥ २८७ ॥ अङ्गावपीडनायां च व्रणशोणितयोस्तथा ॥ 1 समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा ॥ २८८ ॥ (6 अङ्गानामवपीडना दृढरज्ज्वादिग्रहण संबन्धिविश्लेषणादिना तत्र यावतां धनेन पथ्यभिषगौषधादिर्मूल्येन प्रत्यापत्तिमायाति तावदपीडितस्य दोप्यः । एवं प्राणशोणितयोरवपीडनानामिति समस्तमपि योज्यं । अथवा प्राणशोणितयोः समुत्थानव्ययं दीप्य इति संबन्धः सामर्थ्यादपचितयोरिति लभ्यते । समुत्थानं प्रकृत्यापत्तिः । प्राणो बलं । प्रहारेणा२९ स्वस्थस्य भोजनादृते कार्शाद्युपपत्तौ बलमपचीयते । तत्राङ्गेऽनष्टे प्रत्यागते च यावद्बललाभस्तावत्तदुपयोगे यत्किचिद्वृत्ते तैलादि दापनीयः । एवं शोणिताद्युत्पत्तौ तद्दुर्बली भूतस्य व्याध्यन्तरं वा प्राप्तस्याप्रकृतशरीरावस्था प्राप्तेः समुत्थानव्ययं दाप्यः । न चेत्तद्गृह्णाति तदा तच्च दण्डं च परिपिण्ड्य सर्व राज्ञे दद्यात् ॥ २८८ ॥ १ फ-दशवस्त्रसंवयमिति । २ ण-र-महोपभोगवृक्षादेः । ३ फ-दुगात् । ४ फ- अनुबन्धः परिज्ञायते तस्यैव । ५ ण-र - संख्याया । ६ ण-र-निदृढ | ७ फ-याचितधने । ८ ण-र-भि । ९ ण-र-दातव्यः । १० ण-र - दाप्यते । ११ फ - सामर्थ्यापचितयो - । १२ण - र-त्रततैलादिः । १३ ण - र- प्राप्तः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy