________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः। तेन देशान्तरे यदनपायि तच्चिन्हमायसो लेखनादुपदिश्यत । तथा च वक्ष्यति " उद्वेजनकरे दण्डे चिन्हयित्वेति" । राष्ट्राच्च निष्कास्यः । स्फिक् श्रोण्येकदेशः। सन्यो दक्षिणश्च । तं चावकर्तयेत् चिन्हेन । विकल्पविधानात्तावन्मात्रच्छेदो न सर्वस्य स्फिजः । अभिप्रेप्सुरिति च नेच्छामात्रेण । किंतर्हि । प्राप्तवत एव । इच्छाया शक्यापह्नवत्वाद्दण्डस्य च महत्त्वात् ॥ २८२ ॥
अवनिष्ठीवतो दर्पाहावोष्टौ छेदयेन्नृपः॥
अवमूत्रयतो मेमवशर्धयतो गुदम् ॥ २८३ ॥ मूत्रेणावसिंचतोऽभिमुखं वा तदवमानार्थ क्षिपतोऽसत्यपि संस्पर्शेऽवमानयते मूत्रेणेति । निष्कर्तव्यः समानफलत्वादेतस्यापि दण्डोऽयं । निष्टीवनं नासिकास्यश्रावस्य घ्राणेन क्षेप नासापुटच्छेदः "येनाङ्गेने"त्युक्तत्वात् । शर्धनं कुत्सितो गुदशब्दः। दोन्न प्रमादात् ॥२८३॥ १०
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ॥
पादयोटिकायां च ग्रीवायां वृषणेषु च ॥ २८४ ॥ ददित्यनुवर्तते । परिभवबुध्या केशेषु ब्राह्मणं गृह्णतः शूद्रस्य हस्तौ छेदयेत् । द्विवचमेकेनापि द्वाभ्यां तुल्यपीडाकर उभयच्छेदो नैकस्यैव । दाढिका श्मश्रु । अन्यदपि १५ यदङ्गं गृह्यमाणं ग्रीवादितुल्यपीडाकरं तत्र सर्वथाप्ययमेव दण्डः । अविचारयन्पीडा कियत्यस्य गृहीतस्य संजाता महती स्वल्पा वेति । एतद्नुबन्ध श्लोकप्राप्त विवरणं विचार्यते । ग्रहणमात्रे दण्डः ॥ २८४ ॥
त्वम्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः॥
मांसभेत्ता तु पण्णिष्कान्भवास्यस्त्वस्थिभेदकः ॥ २८५॥ २० द्विजातीनामयं परस्परापराधे शूद्रस्य तु शूद्रापराधे मन्यते यः केवलोमेव त्वचं भिन्द्याद्विदारयन्न लोहितं दर्शयेत्तस्य शतं दण्डातावदेव लोहितदर्शने । यद्यपि त्वम्भेदमन्तरेण न लोहितं दृश्यते तथाप्यधिकापराधादधिकदण्डे प्राप्ते शतवचननियमार्थ । अन्ये तु कर्णनासिकादेरपि स्रवति शोणितं बहिस्त्वम्भेदेऽपि तदर्थमुच्यत इत्याहुस्तदयुक्तं । अन्तर्भदे हि महत्त्वा-महादण्डो युक्तस्तस्माद्यत्रेषत्स्रवति शोणितं तत्र शतं शिरोभेदे तु मांसवत् । २५ निष्क शब्दः सुवर्णपरिमाणवाचत्युिक्तं । प्रवास्योऽस्थ्नां भेदकस्तत्प्रयोजक इति । घअन्तेन समासं कृत्वा तं करोतीति पटितव्यः । अस्थिभेदकृदिति । प्रवासनमर्थशास्रप्रवत्त्या मारणं।
१ ण र-च। २ फ-ति। ३ ण-र-विधारणं निर्वार्यते। ४ ण-र-शद्वापरोधा उच्यते । ५ ण-र-केल्मेव । ६ण-र-दण्ड्यः । ७ ण-र-श्रोत्रियं । ८ ण-र-महत्तरापीठात् महादंडो युक्तः ।
For Private And Personal Use Only