SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [अष्टमः परस्पराक्रोशे यावत् । स्वनातिमिति पूर्वत्रापि संबन्धनीयं । प्रणयनम् प्रवर्तनम् । क्षत्रियस्य वैश्यशूद्राक्षारणे प्रथमार्द्धसाहसः । एवं ब्राह्मणस्य वैश्यशूद्रयोः कल्पः ॥ २७८ ॥ एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः ॥ अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥ २७९ ॥ दण्डपारुष्यं दण्डेन दुःखोत्पादनं यथा कण्टकादे: पुरुषस्य स्पर्शः पीडाकर एवं पीडाकरत्वसामान्यात्पारुप्यशब्दप्रयोगः । तत्र निर्णयो दण्डविशेषनिर्णयः । पूर्वप्रकरणोपसंहारोपन्यासार्थः श्लोकः ॥ २७९ ॥ येनकेनचिदङ्गेन हिंस्याचेच्छेष्ठमन्त्यजः ॥ छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥ २८० ॥ ० अन्त्यजः शूद्रश्चण्डालपर्यन्तः । श्रेष्ठः त्रैवर्णिकः । तं चेद्धिस्यादङ्गेन केनचित् साक्षाद्दण्डखडादिप्रहरणव्यवधानेन वा तदङ्गस्य छेत्तव्यम् । हिंसा च क्रोधेन प्रहरणं ताडनेच्छया हस्ताद्युद्यम्य वेगेन निपातनं मारणमेव । तत्तदिति वीप्सा । अङ्गमिति छेत्तव्यमिति चैकत्वविवक्षामोविज्ञापितेनानेकेनाड्रेन प्रहरणेऽनेकस्यैव छेदः । अनुशासनमुपदेशोपनुकृतैषा मर्यादा । अनुशासनग्रहणं कारुणिकस्य राज्ञः प्रवृत्त्यर्थः ॥ २८० ॥ पाणिमुद्यम्य दाडं वा पाणिच्छेदनमर्हति ॥ पादेन प्रहरकोपात्पादच्छेदनमहति ॥ २८१ ॥ उद्यम्योत्क्षिप्य कोपात्ताडनेच्छोस्तदङ्गमनिपातयतोऽस्य पाणिः च्छेत्तव्यः । दण्डग्रहणं समानपीडाकरस्य हिंसासाधनस्योपलक्षणार्थम् । तेन मृदुशफादावन्यो दण्डः । पादेन प्रहरनिति । अत्राप्युद्यम्येत्यपेक्षितव्यम् । अवगुरतोऽप्येष एव ॥ २८१ ॥ २० सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ॥ कट्या कृताङ्को निर्वास्यः स्फिचं वाऽस्यावकर्तयेत् ॥ २८२ ॥ उत्कृष्टो ब्राह्मणो जातितो दौःशील्यादवकृष्टोऽपीतरे वर्णा औत्तराधर्येण परस्परापेक्षयोत्कृष्टाचांवकृष्टाश्च तत्रेहीवकृष्टन इति जनिनी जन्म चोत्कर्ष उपात्तं तत्सं निधानादुत्कर्षोऽपि जन्मनैव । जन्मना च निरपेक्षोत्कर्षों ब्राह्मणस्य नोपकर्षः । तेन शूद्र२५ स्यायं ब्राह्मणेन सहैकमासनमारूढवतो दण्डः । कटिः श्रोणी । तत्र कृतचिह्नः । अङ्कविधौ च सुधाकुम्कुमादिना चिह्नकरणमात्रमपि । अयं तु दण्डः ख्यापनार्थः। अतिक्रमाद्विमिद्युरिति । १ण-र-कल्प्यं । २ण-र-दः । ३ फ-वा । ४ फ-ताडनमिच्छया । ५ फ-ति । ६ण-रआप्नुयान् । ७ फ-च। ८ ण-र-ताडनेच्छुस्तदंगमनिपातयंस्त्याजयितव्यः । ९ ज-र-शिफादौ । १०ण-र-व । ११ फ-स्वा । १२ फ-त्रा। १३ण-र-वा। १४ ण-र-उपात्तः। १५ण-र-ब्राह्मणस्य शूद्रस्यवावकर्षः । १६ ण-र-मात्रपितु दंडख्यापनार्थे । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy