________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ] मनुस्मृतिः।
६७७ पश्चाशद्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ॥
वैये स्यादर्धपश्चाशच्छूद्रे द्वादशको दमः ॥ २६९ ॥ अभिशंसनं सर्वप्रकार आक्रोशः । पतनीयादन्यः। तत्र दण्डान्तरविधानात् । निमित्तसप्तमी चैषा । वैश्य इति दण्डैविषयसप्तमी । ब्राह्मणस्याकोष्टुराक्रुश्यमानस्य च दण्ड उक्तः । क्षत्रियादीनां वितरेतरं स्मृत्यन्तरमन्वेषणीयम् । तथा च गौतमः (अ.१२सू.११.) ५ " ब्राह्मणराजन्यवत् क्षत्रियवैश्यौ" । परस्पराकोशे क्षत्रियश्चेद्वैश्यमाक्रोशेत्पञ्चाशतं दण्ड्यः । वैश्यः क्षत्रियं शतम् । एवं क्षत्रियः शूद्रमाक्रोशेत्पञ्चविंशतिर्दण्ड्यः । वैश्यः पञ्चाशतम् । शूद्रस्य तु तदाक्रोशे गुणापेक्षिको दण्डो वक्ष्यते ॥ २६९ ॥
* समवर्णे द्विजातीनां द्वादशैत्र व्यतिक्रमे ॥ ___ वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ २७० ॥
द्विजातिग्रहणमत्र समवणे द्वादश व्यतिक्रमे परस्पराक्रोशे दण्डः । स चे जातिवित्तबन्धुवयःकर्मविद्याभिर्विशेषानुपदेशात् । तत्र समानजातीये वित्ताधिके द्विगुणं तस्मिन्नेव बन्धुत्वाधिके त्रिगुणं यावत्सर्वगुणानिर्गुणस्य षड्गुणं । वादा आक्रोशा अवचनीया अत्यन्तनृशंसा मातृभगिनीभार्यादिगताः । तदेव द्विगुणं दंडपरिमाणम् । नपुंसर्कलिङ्गात्सर्वशेषोऽयं न समवर्णविषय एव । अथवा तदेव शतमिमिति योजना ।लिङ्गसामर्थ्या- १५ च्छतस्य च प्रथमश्ले.के श्रुतत्वात् । अतोऽवचनीयेषु समवर्णेष्वपि द्विशतो दमः । लिङ्गोपपत्त्यर्थं परिमाणपदमश्रुतमध्याहर्तव्यम् । शते तु व्यवहितकल्पना ज्यायसी ॥ २७० ॥
एकजानिर्द्विजातींस्तु वाचा दारुणया क्षिपन् ॥
जिव्हायाः प्रामुयाच्छेदं जघन्यप्रभवो हि सः ॥ २७१ ॥ एकजाति: शुद्रः । स त्रैवर्णिकान्क्षिपन्नाक्रोशन् दारुणया पातकादियोगिन्या २० वाचा नृशंसादिरूपया जिव्हाछेदं लभते । जघन्यप्रभव इति पादाभ्यां ब्राह्मण उत्पन्न इति हेत्वभिधानं प्रतिलोमानामपि ग्रहणार्थम् । तेऽपि जघन्यप्रभवा एव " नास्ति पञ्चम" इति वर्णान्तरनिषेधात् ॥ २७१ ॥
विप्रक्षत्रियवत्कार्यो दण्डो राजन्यवैश्ययोः वैश्यक्षत्रिययोः शूद्रे विप्रे यःक्षत्रशूद्रयोः॥१ समुत्कर्षापकर्षास्तु विप्रदण्डस्य कल्पना ।राजन्यवैश्यशूद्राणां धनवर्जमिति स्थितिः॥ २]
ण-र-ज-विप्रः पंचाशनं दंडः । २ ण र-वैश्यः। ३ फ-सूत्रे । ४ ण-र-विषयसप्तमी । ५ण-र-साम्यं च । ६ फ-चित्त । ७ ण-र-नप । ८ ण-र-नपुंसकलिङ्गत्वाच लिङ्गम् ।
For Private And Personal Use Only