________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७६
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
दण्डार्थ पूर्वत्र वा संख्यानं विवक्षितं मन्यन्ते । तेन व्यवहारं लेखयामि राजनि दंडयामि चौरैर्दोषयामीति भयप्रदर्शनेन हरति तस्यां दण्डो निमित्तान्तरानुकल्पः ॥२६॥ * सीमायामविपह्यायां स्वयं राजैव धर्मवित् ॥
प्रदिशेद्भूमिमेतेषामुपकारादिति स्थितिः ॥ २६६ ॥ ५ अविषह्या निश्चतुमशक्या । लिङ्गसाक्ष्यभावात् । राजैव स्वेच्छया भूमि
प्रदिशेद्दद्यात् । इयं वो भूमिरियं व इति । धर्मवित्पक्षपातो नैव कस्यचित्कर्तव्य इति । एतदाह उपकाराद्धेतोः । यया सीमया द्वावपि ग्रामौ समोपकारौ भवतः तेन यदि न्यूनापि कस्यचिभूमिः स्यात्क्षेत्रं चेत्सुगुणं बहूत्पत्तिकं तदपेक्ष: प्रदेशः । ल्यब्लोपे पंचमी । उपकार.
मपेक्ष्य । अथवैकेषां प्रदिशेदपरेषामनिश्चितामपहरेत् । यदि विवादिग्रामम्तां सीमां यावद्वक्तुं १० न शक्नुयादितरे च शक्तास्तदन्येभ्यः प्रदिशेत् । एवमात्मनो बहूनां च ग्रामीणानामुपकृतं भवति ॥ २६६ ॥
एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये ॥
अत ऊर्ध्व प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ॥ २६७ ॥
पूर्वोपसंहारोऽपरसंक्षेपोपन्यासः श्लोकार्थः । दण्डवाचिक इत्युक्त्वा क्रमभेदो लाघवा१५ द्वाक्पारुष्यं स्यात्ततो दण्डव्यापारद्वन्द्वे चेतरेतरयोगांधस्तक्रमसमासार्थप्रतिपत्तेरेकैकस्यो
भयार्थाप्रतिपादनाद्दण्डशब्देन वागर्थोऽप्युपात्त इति कः क्रमभेदः । तथा च यथा यथासंख्यसूत्रारंभो महाभाष्यकारेण समर्थितः एतदेव दर्शनमाश्रित्य संज्ञासमासनिर्देशादिति ॥ २६७ ॥
शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति ॥ वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधमईति ॥ २६८॥
परुषवचनमाक्रोशः । स च बहुधा नृशंसाश्लीलभाषणं तेन भणितो योऽभिशापः अकरणहन्ता वृषलभूयाः । असतां दुःखोत्पादनं “कन्या ते गर्भिणीति " पातकोपपातकैजिनमिति । तत्र द्वयोर्ब्राह्मणकोशे क्षत्रियावैश्ययोरयं दण्डः । अन्यत्र “ पतनीये कृते
क्षेपे दण्डो मध्यमसाहसः" इत्यादि (या. व. व्य. २१०) स्मृत्यन्तरोक्तः । तस्य २५ वधताडने जिह्वाछेदनमारणादि सर्व आक्रोशभेदा वेदितव्याः ॥२६८ ॥
* [ध्वजिनी मत्सिनी चैव निधानी भयवर्जिता।
राजशासननीता च सीमा पञ्चविधाः स्मृताः ॥१॥] १ फ-संख्यामेव । २ ण-र-ज-एकेषां । ३ ण-र-सङख्या । ४ ण-र-दि। ५ ण-र-सगुणं । ६ ण-र-गुप्तोपवा । ७ ण-र-प्रदेशेत् । ८ फ-विवादिमत्तां । ९ण-र-इतरेतरे। १० ण-र-रः। ११ण-र-द्रमः कामः । १२ ज-र-पुरुष । १३ फ-भृ । १४ ण-र-भाषणात् । १५ ण-र-+प्रमयोः। १६ ण-र-शूद्रस्य च।
For Private And Personal Use Only