SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । ६७५ पृच्छेयुः । कोऽयं ग्रामो यो भवद्भिः कृष्यत इति । एवमादिना संभवति पूर्वानुभवः । व्याधा मृगया जीविनः । तेषामपि वनाष्टमृगर्मनुधावतां भवति ग्रामसंबन्धः । एवं शाकुनिकाः शकुनिबन्धजीविनः । तदन्वेषणे ये सर्वान्यामानागोचरयन्ति । गोपां गवां तृणविशेषज्ञानाय तत्र तत्र परिभ्राम्यन्ति । कैवर्ता दाशास्तडागखननादिजीविनस्तत्र तत्र गच्छन्ति वास्माकीनं कर्मोपयुज्यते । मूलं वृक्षादेः खनयन्ति स्थूलकाशादेः । व्यालग्रहाः सर्पग्राहिणः जीविकार्थं तेऽपि सर्पास्तं तं प्रदेशमन्विच्छन्त्यतः तेषामपि पारिग्रामिकैर्बहुभिः संबन्धः । उञ्छवृत्तयोऽपि दरिद्रा अनेक ग्रामपर्यटन यात्रामात्र निर्वर्तयन्ति अन्यांश्च फलकुसुमेन्धनार्थिनः ॥ २६१ ॥ ते पृष्टास्तु यथा ब्रूयुः सीमासन्धिषु लक्षणम् ॥ तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः || २६२ ॥ १० ते धर्मेण पृष्टा इति योजना | सीमाश्च ताः सन्धयश्च सीमासन्धयः । ग्रामद्वयसंयोगः सन्धिः। स च सीमैव । लक्षणम् ज्ञापकम् ॥ २६२॥ क्षेत्र कूपतडागानामारामस्य गृहस्य च ॥ सामन्तप्रत्ययो ज्ञेयः सीमा सेतुविनिर्णयः || २६३ || आराम उद्यानभूमिः शाकवाटश्च सामन्तप्रमाणकर्तत्त्वनिश्चयः । व्याधादिनिवृत्त्यर्थ - १९ मिदमुच्यते । सीमासेतुः सीमाबन्धः । सीमाविभावनार्थ य आबध्यते स्थाप्यते॥ २६३ ॥ सामन्तान्मृषा ब्रूयुः सेतौ विवदतां नृणाम् ॥ सर्वे पृथक्पृथक् दण्ड्याराज्ञा मध्यमसाहसम् || २६४ ॥ पूर्वेभ्यः सामन्तानामधिको दण्डः । पृथक्पृथगित्यनुवादः । उक्तत्वान्न्यायस्य क्षेत्रादिप्रातिवेश्या अवश्यं ज्ञातारो भवन्ति । प्रत्यासोत्तरत: ( १ ) एषां दण्डमहत्त्वं । २० सामन्तानां तु परकीयसीमावेदनं नावश्यमिति द्विशतो दमोऽनुवर्त्यः । तेन ग्रामसीमायां द्रष्टृणां सामन्तानां च द्विशतः । ये तु सामन्तशब्दमाश्रित्य ग्रामक्षेत्रादिसीमयोः सामन्तत्वातुल्यदण्डत्वमाहुस्ते न्यायविरोधादुपेक्षणीयाः ॥ २६४ ॥ गृहं तडागमारामं क्षेत्रं वा भीषया हरन || शतानि पञ्च दण्ड्यः स्यादज्ञानाद्विशतो दमः || २६५ ॥ क्षेत्रादिप्रसङ्गादिमुच्यते सीमाग्रर्हणनिमित्तोपलक्षणार्थम् । अस्यैवैतन्निश्चितमित्येवं जानतो हरतः पञ्चशतो दण्डः । मध्यमसाहसे प्रकृते पञ्चशतग्रहणं निमित्तभेदे न्यूनाधिक For Private And Personal Use Only २५ १ ण-र-मत्र । २ ण-र-शकुनी । ३ ण-र-णाय सर्वानुप्रामाना- । ४ फ - गोपानां । ५ण - र तृणादि । ६ ण-र-मार्जयन्ति । ७ ण-र-विनिश्चय । ८ फ-कत्व । ९ एवं मूले । १० ण-र-तेषां ग्रहणं हरणनिमित्तोप- 1
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy