________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[ अष्टमः
वाससश्च सशूका भवन्ति । ' यदस्माकं सुकृतं किंचिदर्जितमस्ति तन्निष्फलमास्त्विति' वाच्यं ते । स्वैः स्वैरिति वीप्सया विशेषनामभिः सुकृतं कथयेयुः। तत्कस्यादानं तीर्थस्नानं चेत्यादि । समंजसं क्रियाविशेषणम् । सत्यादनपेतऋजुर्धार्मिको यो मार्गस्तेन नयेयुः । समंजसमजु स्पष्टमित्येकोऽर्थः । सत्यव्यवहारश्च स्पष्ट इत्युक्तं समंजसमिति ॥ २५७ ॥
यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ॥ विपरीतं नयन्तस्तु दाप्याः स्युर्दिशतं दमम् ॥ २५८ ॥
प्रमाणान्तरलिङ्गेभ्योऽन्यथासंभवभ्यः प्रत्ययितरपुरुषेभ्यो मिथ्यात्वे वैध्यते । प्रत्येकं द्विशतो दण्डः । एकैकस्य साक्षित्वात्साक्षिणां च दण्डयत्वात् न हि व्यासज्ज
वदन्ति साक्ष्यं । सत्यप्रधानाः साक्षिणः सत्यसाक्षिणः पूयन्ते अनृताभिधानेन पापेन न १० संबध्यन्त इति । यथोक्तेन यार्थातथ्येन । न हि शब्दात्मकस्य वचनस्यात्रावसरः ।
प्रमाणान्तरसंवादमात्रमनेन लक्ष्यते । अथवा यथाशास्त्रमुक्तेन सत्येनेति यावत् । शास्त्रे हि सत्यं वक्तव्यमित्येवमुक्तमतो यथोक्तेन सत्येनेत्युक्तं भवति ॥ २५८ ॥
साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः॥ सीमाविनिर्णयं कुर्युः प्रयता राजसन्निधौ ॥ २५९ ॥
ग्रामसामन्ताः सीमान्तरवासिनः प्रष्टव्याः । तेषां वचने निश्चयं कुर्यात् । प्रयता साक्षिधर्मेण नान्तरेण । राजसंनिधाविति श्लोकपूरणम् । न तु सामन्ताः स्वेच्छया राजवनिश्चिन्वन्ति ॥ २५९ ॥
सामन्तानामभावे तु मौलानां सीनि साक्षिणाम् ।।
इमानप्यनुयुञ्जीत पुरुषान्वनगोचरान् ॥ २६०॥ २० सामन्तानां मौलानामिति विशेषणविशेष्यभावः स्तुत्यर्थः । ग्रामप्रतिष्ठा न तत्काले
भवा उत्पत्तिसहभुवो मौला उच्यन्ते । ते च सामन्ता नित्याः ।नित्यसंनिहितत्वात्तेषामप्यमावः कथंचिदुच्छन्नत्वात्तदा सी गतिः । तदेमानपि वक्ष्यमाणान् पुच्छेत् । अथवा मौला अनुभाविनः । सामन्ता व्याख्याताः । व्यवहर्तव्याः । मौलानां पूर्वोक्तानां अंभावे सामन्ताः प्रमाणम् । तदभावे वनगोचरान्विनियुञ्जीत निपुणतः पृच्छेत् ॥ २६० ॥
व्याघांछाकुनिकान्गोपान्कैवर्तान्मूलखानकान् ॥ व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥ २६१॥
एते हि ग्रामवासिनस्तत्र वनानि च भ्राम्यन्ति । ग्राममध्ये न गच्छन्तः कदाचित्तद्दत्तं विद्युस्ते हि तेन पथा गच्छन्तो विवादास्पदं प्रदेशं पूर्व कांश्चित्पुरुषान्कृषतो दृष्ट्वा
१ण-र-शूका । २ फ-लिप्सया। ३ फ-युक्तं न । ४ फ-ब । ५ण-र-व्यासह्य । ६फ-साक्षात् । ७ण-र-धानात् । ८ ण-र-यथातत्जेन । ९ ण-र-अपि । १० ण-र-सामान्ता।"फ-तदास्तमेति ।। १२ फ-सद्भावे । १३ ण-र-शकुनिकान् । १४ -र-शतशस्तथा । १५ ण-र-कृशतो ।
For Private And Personal Use Only