SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः । ६७३ यदि संशय एव स्याल्लिङ्गानामपि दर्शने ॥ साक्षिप्रत्यय एव स्यात्सीमावादविनिश्चयः॥ २५४॥ कथं पुनर्लिङ्गेषु सत्सु संशयः । यानि तावत्प्रछन्नानि तानि यदि केनचित्कथंचिदागम्य प्रछन्नमन्यत्र नीयेरन्नै निश्चयः स्यात् । येऽपि प्रकाश्या न्यग्रोधादयस्तेऽपि न सीमायामेव रोहन्त्यन्यत्रापि जायन्ते ततः संदेह आभासत्वात् । यत्र पुनरियं संभावना ५ नास्ति तत्र प्रमाणमेव लिङ्गानि । साक्षिपत्ययः साक्षिहेतुकः । साक्षिणः प्रत्ययो यत्रेति । विनिश्चयःतत्त्वाधिगमः संशयितलिङ्गे अलिङ्गे वा सीमाविवादे साक्षिहेतुको निर्णय इति तात्पर्यम् ॥ २९४ ॥ ग्रामेयककुलानां च समक्षं सीम्नि साक्षिणः॥ प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥ २५५ ॥ १० यद्यप्यसंख्यातपुरुषको ग्रामस्तथापि द्वौ विवादिनौ द्वयोमियोर्भवतस्तयोः समक्षमन्येषां च ग्रामेयककुलानां च ग्रामीणपुरुषसमूहानां समक्षं सीम्नि साक्षिणः प्रष्टव्याः। साक्षिप्रश्नकाले सर्वामीणैर्दत्तव्यवहारकैरपि संनिहितैभवितव्यं नार्थिप्रत्यर्थिनोरन्यतरो वक्तुं लभते । एवं विसृष्टार्थे विवादे किमेते संनिधीयन्ते । अथवा येऽन्ये सामन्तेभ्यो ग्रामेभ्यः केचिद्वद्धतमाः साक्ष्ये समुद्दिष्टास्तद्रामीणैरन्यैः संनिहितैर्भवितव्यं । १५ यतस्तैवृद्धेभ्यः श्रुतं भवति तत्समक्षं पृच्छचमाना न विपर्यन्ति वृद्धाः । सीमालिङ्गानि यत्र लिङ्गान्युभयथा तत्र वृद्धेभ्यस्तानि निश्चित्य सीम्नि निश्चयः । असत्सु लिङ्गेषु सीम्न्येव साक्ष्यं पृच्छते काऽत्र सीमेति ॥ २५५ ॥ ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् ॥ निबनीयात्तथा सीमा सर्वास्तांश्चैव नामतः ॥ २५६॥ २० ते साक्षिणो यथा यादृशं निश्चयं ब्रूयुः समस्ताः सर्व एव । न पुनर्वाक्यभेदोक्तौ न्यायः “ द्वैधे च बहूनामिति " । निबन्नीयात् पत्रके लिखेत् । तत्र साक्षिणश्च नामविभागे साक्षिमात्रेण ॥ २५६ ॥ शिरोभिस्ते गृहीत्वोर्वी स्रग्विणो रक्तवाससः॥ सुकृतैः शापिताः स्वैः स्वैनयेयुस्ते समंजसम् ॥ २५७ ॥ २५ मू!वीं पृथ्वी मृलोष्टकान्गृहीत्वा साक्षिणः स्रग्विणो यथासंभवं माल्यधरा रक्तवर्णकुसमधरी रक्तवाससो लोहिताच्छादनाः यद्यपि शुक्लस्य वर्णान्तरापादनेऽपि रञ्जिर्वर्तते भूयास्तु लोहिते प्रयोगो रक्तो गौोहित इति । भयसञ्जननाथ चैतत् लोहित १फ-र्णयः । २ फ-अत्रैव । ३ण-र-+न।४फ-क्ष्य ।५फ-मी।६ण-र-तु। ७ फ-एकैरपि। ८ण-र-आवानां सृष्टार्थी विवाहे किमेते संनिधीयन्ते।९ण-र-सामन्ते ।१० ण-र-वरा । ११ फ-भञ्जननार्थे। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy