________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७२
मेधातिथिभाष्यसमलकता।
[ अष्टमः
आदरार्थः । करीषं शुष्कं गोमयम् । अङ्गारा अग्निदग्धाः काष्ठावयवाः । पाषाणकठिना मृदः शर्कराः । कपालिका शकलैकदेशः ॥ २४८ ॥ २४९ ॥ २५० ॥
तडागान्युदपानानि वाप्यः प्रस्रवणानि च ॥
सीमासंधिषु कार्याणि देवतायतनानि च ॥ २५१ ॥
महाभांसि तडागानि। वाप्यः पुष्करिण्यः । उदपानानि कूपप्रभृतीनि। प्रस्रवणान्युदकस्यन्दा ईषत्स्रवदुदका भूप्रदेशाः । देवतायतनानि यक्षगृहादीनि । एतानि प्रकाशकानि । न ह्येतानि स्वल्पेनायासेन नाशयितुं शक्यन्ते । नाश्यमानेषु च महान्प्रत्यवायो भवति । सर्वस्य चोदकार्थिनो देवतादर्शनार्थिनश्च तत्र संनिधानात्सुज्ञातश्च साक्षिणां सीमासन्धिर्भवति । अन्यानि प्रछन्नानि करीषादीनि भवन्ति । कारयेद्राना नवनामसंनिवेशे कृते निर्णयम् । एवं सीमा न कदाचिन्नश्यति । अन्यथा तं प्रदेश कश्चित्कर्षणेन नाशयेत् ॥ २५१॥
यानि चैवंप्रकाराणि कालाइमिर्न भक्षयेत् ॥ तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥ २५२ ॥
गुल्मादीनामुपदेशः प्रदर्शनार्थो न परिसंख्यार्थः । खदिरसारकालाञ्जनाद्यानि १५ शर्करादितुल्यानि कैवंप्रकारता अत आह कालाभूमिर्न भक्षयेत् । भूर्भक्षणमुपमया स्वरूपोपादानम्। यथा भक्षितं भेदेन नोपलभ्यते तद्वद्भमिसादाँपन्नमिव तादृशं कुर्यात् ॥२५२॥
एतैर्लिङ्गै येत्सीमां राजा विवदमानयोः ॥ पूर्वभुक्त्या च सततमुदकस्यागमेन च ॥ २५३ ॥
उभयोामयोः शून्यत्वे लिङ्गैनिर्णेयः । वसंतः पूर्वभुक्त्या सततमविछिन्नयाऽस्मर्य२० माणावधिकया न हि त्रिपुरुषभोगेन स ह्यत्र प्रतिषिद्धप्रामाण्य “आधिः सीमा" इत्यत्र
संभवति हि तत्रोपेक्षा बहुसाधारण्यात्सीमायाः । यत्तु तत्र सीमशब्दं पठन्ति तेषां भक्तेः सिद्धमेव प्रामाण्यम् । लिङ्गानां प्रामाण्यस्योक्तत्वात्प्रमाणान्तरनिवृत्तिराशक्यतेति पुनरुच्यते । कोऽयमुदकागमः प्रामाण्येनोच्यते । यथाऽन्यानि लिङ्गानि नवसंनिवेशे क्रियन्ते
तद्वदेवोदकप्रवाहोऽपि कर्तव्यः । अथवा ययोमियोः प्रदेशान्तरे स एवोदकागमो २५ विभागहेतुः प्रदेशान्तरे च विप्रतिपत्तिस्तत्र स एव प्रमाणम् । अथवा महाग्रामविषयमेतत् ।
नद्या अपर एको वा वार एकग्रामस्तत्र न पारवारिणो वक्तव्यं ' अस्मदीया भूमिरत्रापि विद्यत' इति । यदि नामान्यतरशन्यत्वादतिक्रम्य न दातुस्तमपि तथापि न भोगः प्रमाणं
विभागः हेतुः स्वल्पेऽपहारे ॥ २५३ ॥ १जर-अग्निदग्धिदग्ध । २ फ-गृहकादीनि। ३ णर-ने। ४ णर-सीमाया अप्रकाशानि । ५फशर्करा हि गुल्मादि। ६ णर-उपमा। ७फ-सादादपन्नमिव । ८फ-शून्यात्तलिंगे। ९ णर-वसाताः। १० णर-न पठन्ति । ११ णर-संभवति । यदि वा कुतश्चिद्ग्रामात्तादशेन प्रवाहेण छित्वाऽपि काचिद्भः तथापि स एव विभागहेतुः स्वल्पेऽपहारे ।
For Private And Personal Use Only