SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] . मनुस्मृतिः। तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ॥ न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥ २३९ ॥ तत्र परीहारस्थाने क्षेत्रं न कर्तव्यम् । अथ कृतं तस्मादृत्तिर्न कृता । अतः क्षेत्रिण एवापराध्यन्ति । न पशुपालाः । न हि पाल एकैकं पशु हस्तबन्धेन नेतुं शक्नोति । न च पशूनामन्यो निर्गमोऽस्ति ॥ २३९ ॥ वृति तत्र प्रकुर्वीत यामुष्ट्रो न विलोकयेत् ॥ छिद्रं च वारयेत्सर्वं श्वसूकरमुखानुगम् ॥ २४० ॥ कंटकशाखादीनां प्रकारविन्यासः पशुप्रवेशवारणार्थः क्षेत्रारामादीनां तिरुच्यते। या कचित्पर्णिकेति प्रसिद्धा वारणा वृतिः । तस्या उन्नतिरियती कर्तव्या ययोष्ट्रो नावलोकयति । किमियं द्वितीया तृतीयार्थे यामुष्ट इति । नेति ब्रूमः । कथं तर्हि वृतिमुष्ट्रो १० न पश्यति । महोत्सेधाया द्वितीयपार्श्वस्यादर्शनाददृष्टैव वृतिः । छिद्रं च विवरमावारयेत्सर्वम् । श्वसूकरमुखेन यद्नुगम्यते तन्मुखं परिमाणं तथा कुर्याद्यथाश्वमुखं न माति । तन्मुखादप्यरुपछिद्रमित्यर्थः । तथा कृतायां वृतौ ॥ २४० ॥ पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः ॥ सपालः शतदण्डा) विपालान् वारयेत्पशन् ॥ २४१ ॥ १५ परिवृते पथि क्षेत्रे ग्रामसमीपवर्तिनि च परीहारमध्यगते । अन्तशब्दः समीपवचनो यदि भक्षयेत्पशुः सपालश्च स्यात्सन्निहिते पालः शतदण्डाहः पशोर्दण्डासंभवात् । पालेऽसन्निहितेऽपि गृहे यदा नाप्यसौ पालः प्रसिद्धो न पुनस्तत्प्रेषितो वारिको रूपमात्रचेतनः । विपालाः पशवो वारयितव्या दण्डादिना न तु दण्डनीयाः । विपालाश्चोत्सृष्टवृषादयः । अन्येषां तु विपालानां स्वामिनो दण्डः । अथवा परिवृत इति २० प्रश्लेषः । क्षेत्रसंबंधाच्च गम्यमानः क्षेत्रस्वामी सपाल इत्यन्यपदार्थतयाऽभिसंबध्यते । सहपालेति क्षेत्रे को दण्ड्यः। उभौ दण्ड्यौ। पालः क्षेत्रिकश्च । क्षेत्रिकस्तावत्किल किमिति पथि क्षेत्रे वृतिं न कृतवान् । पालेनापि वृतौ चासत्यां किं क्षेत्रं खादयितव्यं विपालप्रमादायूथच्युतं वारयेत् । तथा च गौतमः (अ. १२ सू. १८ ) " पथि क्षेत्रेऽनावृते पालक्षेत्रिकयोः” इति ॥ २४ १ ॥ क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति ॥ सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा ॥ २४२ ॥ १णर-सिद्धं । २ णर-क्षेत्रक्षेत्रसंबन्धाञ्च । ३ फ-न । ४ फ-च सत्यां । ५ फ-दपि तौ वारयेत् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy