SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ६५९ वा विनियुञ्जीत वृद्धिलाभकृप्यादौ न देयं तस्य तद्दत्तस्य दानप्रतिषेधो नोपपद्यते । अतः प्रत्याहरणीयमिति वाक्यार्थः । अथवा नष्टान्तो गौणो व्याख्येयो दत्तं प्रतिश्रुतं न देयम् । तथा च गौतमः (अ. ५ श्लो. २१) "प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्"। किंपुनरत्र युक्तमुपायमित्याह दत्तस्य प्रत्याहरणं प्रतिश्रुतस्य वा दानम् । तथा च स्मृत्यन्तर उभयं पठितम् । आह हि नारदः (अ. ८ श्लो. १०-११) " कर्ताहमेतत्कर्मेति ” ५ उपक्रम्य " यद्दत्तं स्यादविज्ञानौददत्तं तदपि स्मृतम् ” इति । प्रयोजनविशेषोद्देशेन यद्दत्तं तस्मिन्ननिवर्त्यमाने स्ववस्थितमपि प्रतिग्रहीतुर्ग्रहादाहर्त्तव्यम् । दानम्योपक्रममात्रं तदानीं समर्पणं समाप्तिस्तु निर्वतप्रयोजनेति नारदस्य मतम् ॥ २१३ ॥ यदि संसाधयेत्तत्तु दोल्लोभेन वा पुनः ॥ राज्ञा दाप्यः सुवर्ण स्यात्तस्य स्तेयस्य निष्कृतिः ॥ २१४॥ १० संसाधनं राजनिवेदनादिना ऋणवत्प्रतिश्रुतम्य मार्गणं स्वीकृतस्य प्रतियाँच्यमानम्य राजनिवेदनं अयं मह्यं दत्वा प्रतिजिहीर्षतीति सिद्धम्य दृढीकरणं संसाधनमेतदेतत् । दल्लिोभेनेति कारणानुवादः । एवं कुर्वतो दण्डः सुवर्ण स्यात्तस्य स्तेयस्य निष्कृतिरिति चौरदण्डमाशङ्कमानं सुवर्ण विधत्ते । अचौरशङ्कया च दत्तं किल तेन तस्मै न स्वयं हृतं कथमयं चौरः स्यादिति शङ्कां निवर्तयितुं स्तेयशब्दः प्रयुक्तः । सत्यपि १५ चौरत्वे वाचनिकः सुवर्णदण्डोऽन्यासु क्रियासु चौरवन्धवहर्तव्यः ॥ २१४ ॥ दत्तस्यैषोदिता धा यथावदनपक्रिया ॥ अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥ २१५ ॥ पूर्वेणार्धेन पूर्वविवादोपसंहारः। उत्तरेण वक्ष्यमाणोपक्रमः । दत्तस्यैषाऽनपक्रियोदिता। अपक्रिया क्रियापयिः । तस्य नञा प्रतिषेधः । दानमेवं न चलितं भवति । एषैव दाने २० स्थितिरिति यावत् ।धर्मादनपेता धा । कथं प्रतिश्रुत्यादीयमाने धर्मो न पश्यतीति नैषा शङ्का कर्तव्या । एष एवात्र धर्मो यन्न दीयते दत्तं च प्रत्यादीयते । उदिता उक्ता यथावच्छब्द. समुदाय एव याथातथ्ये वर्त्तते । सम्यनिरूपितेत्यर्थः । अथवा यथाशब्दो योग्यतायां वर्तते तामहतीति वतिः कर्तव्यः । वेतनं भृतिस्तस्यानपक्रिया वेतनेन स्वकर्म कुर्वतां यो धर्मः स इदानीमुच्यत इति प्रतिज्ञा ॥ २१५ ॥ भृतोनातॊ न कुर्याद्यो दत्किर्म यथोदितम् ॥ स दण्डयः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥ २१६ ।। १ फ-वादिनि युञ्जीत । २ फ-भ। ३ फ-ज्ञानमदत्तं । ४ ण-र-व्यवस्थितमपि । ५ फ-तृय ६ण-र-निवृत्ते प्रयोजनम् । ७ ण-र-प्रतिमानस्य । ८ ण-र-युक्तः । ९ ण-र-विक्रयापायः । १० फतदेवमुदितं भवति। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy