________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५८
मेधातिथिभाष्यसमलंकृता।
[अष्टमः सर्वेषामधिनो मुख्यास्तदधेनाधिनोऽपरे । तृतीयिनस्तृतीयांशाश्चतुर्थाशाश्च पादिनः ॥ २११॥
सर्वेषामृत्विजां ये मुख्यास्तेऽधिनः । यावती तस्मिन्क्रती सामन्त्येन दक्षिणाऽ ऽम्नाता तस्याम्तेऽद्धिनोऽर्द्धहराः । सेमयागेपु हि पोडशविनम्तत्र चत्वारो मुख्या होताध्वर्युब्रह्मोद्गातेति । तेपामधं तम्य द्वादशशतं दक्षिणेति । ततोध पट्पञ्चाशन्न तर्धिनोऽष्टाविंशत्याऽर्धिनम्तद्वन्तोऽपरे येषां ततोऽनन्तरं वरणमाम्नातं मैत्रावरुणप्रतिप्रस्थातृब्राह्मणाच्छंसिप्रस्तोताम्तृतीयेन तृतीयांशाः । अंशशब्दोऽर्धशब्देन समानार्थोऽर्धशब्दस्त्वनावश्यं समप्रविभाग एव किंचिन्यूनेऽधिकेऽपि सामीप्येन वर्तते । तेन तृतीयो भागः षट्पञ्चाशतः षोडश गृह्यन्ते । एकैकस्य चतस्रो भवन्ति । समतृतीयं भागं प्रयच्छन्ति षट्पञ्चाशततृतीयं च होतुरच्छावाकोवोंनष्टाब्रह्मणोग्नीदुद्गातुः प्रतिहर्ता । ये च पादिनस्ते चतुर्थ भागं कर्मणः कुर्वन्तीति पादिनः । चतुर्थे च स्थाने मैत्रावरुणस्थानान्ते चतुर्थांशाः । द्वादशसमुदाये पूर्ववत् । एवं “ तं शतेन दीक्षयन्ती " त्यत्रापि क्लप्तिः कर्तव्या। अधिनो दक्षियाति पादिनो दीक्षयतीत्येवमादिभिः शब्दैः तत्र द्वादशकमविधिरेवान्यत्र श्रुतो व्यवहार इहापि
तयैव रीत्या कृत इति ॥ २११ ॥ १५ संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः ।।
अनेन विधियोगेन कर्तव्यांऽशप्रकल्पना ॥ २१२ ॥
यथा यज्ञे यो बहूनि कर्माणि कायक्लेशकरणे विद्वत्तातिशयसाध्ये च नियुक्तो भूयसी दक्षिणां लभते न्यूनकर्मकारी तु न्यूनां तद्बलौकिकेषु गृहचैत्यादिकारिषु संभूय
संहत्य वर्धकिस्थपतिसूत्रधारादिषु स्वसमयप्रसिद्धो यावानंशः सूत्रधारस्य यावान्स्थपतेस्त२० बानेन विधियोगेन विधिदिकोऽर्थस्तत्प्रसिद्धा व्यवस्था विधियोगवैदिक्या यज्ञगतया
व्यवस्थयेत्यर्थः । एवं नाटकादिप्रेक्षायां नर्तनगायनवादकेषु भागप्रक्लप्तिः । यद्यपि सर्वे विद्वांसः सर्वकर्मानुष्ठानशक्ताश्च तथापि कर्मानुरूप्येण भागो न पुरुषांनुरूप्येणेति संभूयसमुत्थानम् ॥ २१२ ॥
धर्मार्थ येन दत्तं स्यात्कस्मैचिद्याचते धनम् ॥ पश्चाच न तथा तत्स्यान देयं तस्य तद्भवेत् ॥ २१३ ॥
यः कश्चिदाह सान्तानिकोऽहं यियक्षुर्वा देहि मे किंचिदिति । तस्मै यदि दत्तं भवेत् स च न यजेत न विवाहकर्मणि प्रवर्तेत । तद्धनं द्यूतेन वेश्याभिर्वा क्षपयेदन्यत्र
१ फ-दीक्षेन्महती तत्रापि । २ ण-र-पुरुषानुष्ठानरूपेण ३ ण-र-कस्मचिद्याचमानाय दत्तं धर्माय यद्भवेत् । ४ ण-र-भिक्षुर्वा ।
For Private And Personal Use Only