SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५ ६५६ १ . C १५ www. kobatirth.org २५ Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । अन्यां चेद्दर्शयित्वाऽन्या वोढुः कन्या प्रदीयते ।। उभेत एकशुल्केन व्हेदित्यब्रवीन्मनुः ॥ २०५ ॥ विक्रयप्रकारत्वाच्छुल्कादेर्यो यत्कन्याया अस्मिन्नवधौ धर्म उच्यते शुल्क काले रूपवर्ती दर्शयित्वा गृहीतकोऽस्यां रूपहीनां ददाति वयोहीनां गुणहीनां वा तस्योभौ अपि शुल्कदैनैकेन शुल्केन हर्तव्या । कन्यानामेवायं धर्मः । गवाश्वादिद्रव्याणां त्वस्मिन्व्यतिक्रमेऽन्यो विधिर्वक्ष्यते ॥ २०५ ॥ नोन्मत्तया न कुष्ठिन्या न च या स्पृष्टमैथुना ॥ पूर्व दोषानभिख्याप्य प्रदाता दण्डमर्हति ॥ २०६ ॥ [ अष्टमः उन्मत्तादिदोषान्कथयित्वा ददतो दण्डो नास्तीति प्रतिषेधद्वारेण कथयतो दण्डमाह । न केवलं शुल्के देया या अन्यस्यापि ब्राह्मादिविवाहेन विवाहयिप्यमाणाया दत्ता - ऽप्यदत्ता भवति दण्डश्च प्राप्नुयाच्चौर किल्विषमिति जानानस्य अजानतः प्रकृतत्वात् । उन्मत्तया कुष्ठिन्या ये कुष्ठोन्मत्तादयः । या च स्पृष्टमैथुना तस्याश्च यो दोषो मैथुनस्पर्शस्तान्दोषान्पूर्वं वाक्प्रदानेनाख्याप्य प्रकाश्यैतद्दोषा कन्येत्येवमुक्त्वा ददतो नास्ति दण्ड इति पयोजना || २०६ ॥ ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् ॥ तस्य कर्मानुरूपेण देयोंऽशः सह कर्तृभिः ॥ २०७ ॥ संभूयसमुत्थानस्य प्रक्रमोऽयम् । तत्र वैदिकं तावत्संभूयकार्यमुदाहरति । यज्ञो ज्योतिष्टोमादिः । तत्र यागरूपानेकांग कर्मनिर्वर्तनार्थमृत्विग्वृतस्त्वया ममेदं होत्रं कर्तव्यमाध्वर्यवमौद्गात्रं चेति श्रौतेन विधिनाऽनुष्ठेयमित्युपगमश्च प्रवर्तितः । कथंचिदपाटवादिना २० सामिकृतां यत्परिहापयेत्त्यजेत्तदानीं तस्य देयो दक्षिणांशः कर्मानुरूपेण यावती तस्मिन् ऋतौ दक्षिणा तां निरूप्य चतुर्थे भागे कर्मणः कृते चतुर्थतृतीय इत्येतद्वारूप्यं सह कर्तृभिः कर्त्तारः तत्पुरुषाः प्रधानोि होत्रोद्गात्रादीनां प्रस्तोतृमैत्रावरुणप्रभृतयः ॥ २०७ ॥ दक्षिणा च दत्तासु स्वकर्म परिहापयन् ॥ कृत्स्नमेव लभेतशिमन्येनैव च कारयेत् ।। २०८ ॥ For Private And Personal Use Only माध्यन्दिने सवने दक्षिणा दीयन्त इति । तत उपरिष्टात्कर्म त्यजतामप्रत्याहरणीयाँ लभेत न प्रतीपं त्याजयेदित्यर्थः । अन्यां भृतिं दत्त्वा अन्येन पुरुषेण यजमानस्तत्कर्म समापयेत् । ऋत्विग्भिः कर्म कर्त्तव्यं वरणाच्च ऋत्विजो भवति । तच्च नियतकाले १ फ- च । २ फ-ता या । ३ ण-र-उपगमया । ४ र-ण-वरणेन ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy