________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
यादृशेन क्रयेण स्वाम्यं भवति तं दर्शयति । विक्रीणतेऽस्मिन्यवहारिण इति विक्रयः । आपणभूमिस्ततो यो गृह्णीयाद्धनं गवादि क्रीयमाणं द्रव्यं मूल्यं वा स लभते न्यायतः क्रयेण । कुलसंनिधौ विशुद्धं न्यायतः क्रय उचितेन मूल्येनासंभाव्यपापपुरुषाकुलम्यान्यव्यवहर्तृमेलककारपुरुषसमूहस्य समक्षं गृहीतं लभते नापहारयति । अन्यथा स्वामिना तु द्रव्यं प्रतिनीयतेऽस्य न्यायतो विक्रये किन्तु मूल्यं लभते । तस्माद्यस्तस्य ५ विक्रयी अन्यायतः क्रयेण तु दण्ड्यते मूल्यं च हारयति । एतदुक्तं (या. व. व्य. १७०) " विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेतो मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी ।" एष एवार्थस्तेन श्लोकेन प्रतिपाद्यते ॥ २०२॥
अथ मूलमनाहार्य प्रकाशक्रयशोधितः ॥
अदण्डयो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥ २०३॥ १० असंभाव्यपापात्तु पुरुषादित्यादि न्यायतः क्रय उक्तः । स चेद्विक्रेता शक्य आहर्तुं तदा पूर्वोक्तो विधिः " स्वामी द्रव्यम्" इत्यादि । अथ स विक्रयीगतोऽन्येनं क्रीत स्वामिना चिन्हीकृतं तेन च मूलं विक्रेता पुरुष आहर्तुं न शक्यते । प्रकाशं जनसमक्ष प्रसिद्धाया विक्रयभुवः क्रीतमत ईदृशेन क्रयेण शोधिते द्रव्ये शुद्धः । केताऽदण्डयो मुच्यते धनं तु नाष्टिकं स्वामी ज्ञापितस्वं वा लभते । नष्टमन्वेषते नाष्टिकः । नष्ट- १५ मस्याम्तीत्येवं ठनि कृते प्रज्ञादित्वात्स्वार्थिकोऽण् कर्तव्यः । नष्टं प्रयोजनमस्येति वा । तेनायं संक्षेपतः कये प्रकाशक्रये तु दण्डो न स्याद्धननाशस्तु स्थित एव ॥ २०३ ॥
नान्यदन्येन संसृष्टरूपं विक्रयमर्हति ॥
न चासारं न च न्यून न दूरेण तिरोहितम् ॥ २०४ ॥ अस्वामिविक्रयप्रसङ्गेनान्योऽपि विक्रये धर्म उच्यते । नान्यकुंकुमादिद्रव्यं कुद्रव्येण २० तदाभासेन कुसुंभादिना संसृष्टं विक्रेयम् । यत्त्वसावधं चिरकालं भांडेवस्थितत्वात् । प्राप्तविभावं जीर्णमजीर्णाभासं वस्त्रादि न च न्यूनं तुलामानादिना । दूरस्थितं च ग्रामे मम विद्यन्ते वासांसि गुडादि वा द्रव्यं तिरोहितं स्थगितं वस्त्रादिनांऽतर्हितं यस्य वा स्वरूपं केनचिगव्यरागेणान्तीयते पुराणं नववत्प्रतिभाति तत्तिरोहितं न विक्रेतव्यम् । इदं द्रव्यमीदृशं च प्रदा विक्रयः कर्त्तव्यः । अन्यथाकृतस्तु न कृतो दशाहादूर्ध्वमपि प्रत्यर्पणे २५ न दोषः । अन्यस्य॑ दण्डस्येहानाम्नातत्वादुपधाभिरित्येष एव दण्डः प्रकरणभेदेन पठितत्वात् । अस्वामिविक्रयदण्ड इत्यन्ये ॥ २०४ ॥
१ णर-केतुः। २ फ-अनेन। ३ णर-भंगीकृत। ४ पर-मूलविक्रतो न शक्यः । ५णर-सत्यो । ६ फ-अस्य।
For Private And Personal Use Only