SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५१ मेधातिथिभाष्यसमलंकृता। [ अष्टमः अवहार्यो भवेच्चैव सान्वयः पट्शतं दमम् ॥ निरन्वयोऽनपसरः प्राप्तः स्याचौरकिल्बिषम् ॥ १९९ ॥ पूर्वेण साधुजनकर्तृकासु क्रियासु साक्ष्यादिप्वपि अस्वामिक्रियकारिणामनहतोक्ता । अनेन षट्शतो दण्ड उच्यते । षट्कार्षापणशतानि अवहार्यो दापयितव्यो दण्ड्य इति यावत् । सान्दयोऽन्वयोऽनुगमनसंबन्धः । स यस्यास्ति पुत्रभ्रात्रादिः स्वामिनोऽनुगतः सान्वयः। स ह्यननुज्ञातोऽपि विक्रीणानो न स्फुटचोरो यतस्तस्येयं बुद्धिर्मदीयमेवैतद्यापितुरित तं प्रतीयमपि संभावना भवति । तस्यैव विक्रीय मूल्यं ददाति । यस्त्वय॑न्तासंबन्धः स निरन्वयः । चौरकिल्विषं निग्रहं निःसंशयं प्राप्तः । अनपसरो यदि तद्गृहं तस्य नापसृतं भवति तदाऽनपसरश्चौरवद्दण्ड्यः । यदि तु तद्गृहादेव केनचिद्दत्तं विक्रीतं वा तस्य तेन वाऽज्ञां दत्वा तत्प्रतिगृहीतं प्रकाशक्रयेण वा विक्रीतं तदा न चौरवद्दण्डयः । षट्शतमेव दाप्यः । अथवा अन्वयो विक्रीणाति तम्य विक्रयद्रव्यस्यान्यतः क्रयः अपसरः क्रयादन्यः प्रतिग्रहादिरागमः । एतदुक्तं भवति । यदि तेन तन्न कुतश्चन क्रीतं नापि प्रतिगृहादिना लब्धं तदा चौरः ॥ १९९ ॥ * अस्वामिना कृतो यस्तु दायो विक्रय एव वा ।। __ अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः॥ २० ॥ न केवलमस्वामिसकाशाद्यत्क्रीतं तन्न सिध्यति । किं तर्हि प्रतिगहीतमपि । प्रतिग्रहेण प्रीत्या वा दानं दायः सोऽपि न सिध्यति । " विक्रीणीते परस्य " इत्यनेन विक्रेतुः प्रतिग्रहीतुश्चास्वाम्यमुच्यते । “ स्वामीरिक्र्थक्रये"त्यादिना स्वाम्याशङ्कायां प्राप्तोऽयं प्रतिषेधः । व्यवहार एषी स्थिति तिक्रमणीया ॥ २०० ।। संभोगो दृश्यते यत्र न दृश्येतागमः कचित् ॥ आगमः कारणं तत्र न संभोग इति स्थितिः ॥ २०१॥ ___ यस्मिन्वस्तुनि गोवस्तुहिरण्यक्षेत्रादावन्यस्य भोगो दृश्यते अन्यस्य च रिक्थप्रति. ग्रहादिरागमः स्वाम्यापादकस्तत्रागमो बलवान्न भोगः । भोग एव संभोगः।कारणं स्वाम्ये तत्रेति स्थितिः। एवमनादिव्यवस्था न भोगमात्रेण स्वत्वम् । यादृशेन च स्वत्वं तत्पुर२५ स्ताव्याख्यातम् । " यत्किचिदशवर्षाणि" इति वानेन विरोधस्तत्रैव परिहृतः॥२०१॥ विक्रयाद्यो धनं किंचिद्गहीयात्कुलसन्निधौ ॥ क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥ २०२॥ * अनेन विधिना शास्ता कुर्वनस्वामिविक्रयम् ॥ अज्ञानाज्ज्ञानपूर्व तु चौरवद्दण्डमर्हति ॥१॥ १ज-र-ण-एष । २ ज-स्वा । ३ ज-सेः। ४ ण-र-कारिणोनर्हता । ५ण-र-आनपतथो।६फअनुज्ञातोपि । ७ ण-र-स्यात् । ८ ण-र-अत्यन्त संबंध । ९ फ-यदिति न तन्न । १० श्लो. १९८ । ११ गौतयीये अ. १० सू. ३९ । १२. फ-एव । १३ श्लो. १४८ पृ. ६२३ । २० For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy