SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । ६५३ ब्रूयात्साक्षिसमक्षं रूप्यं तैर्विनाऽन्यत्स्थापितमिति । अस्त्यत्र प्रमाणान्तरव्यापारणावसरः । अयमपि श्लोको नाधिकविध्यर्थः ॥ १९५ ॥ मिथो दायः कृतो येन गृहीतो मिथ एव वा ॥ मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ॥। १९६ ॥ 1 यो यथा निक्षिपेदित्यनेन निक्षिप्तविधिरयमुक्तोऽन्येषु कार्येष्वनेन प्रतिपद्यते । ऋणादानोपनिधिविक्रयाद्यपि येन यादृशेन प्रकारेण कृतं तादृशेनैव प्रत्यर्पणीयम् । रहसि कृतस्य राजकुछेंऽशमार्गणादिना प्रकाशनं न कर्तव्यम् । तेन स्वहस्तलेख्येन ऋणे गृहोते न राजकुलेंऽशं दाप्यते । उत्तमर्णधंनं क्षपणीयं । अनेनैव निक्षेपेऽपि सिद्धे तत्र पुनर्वचनं नित्यार्थम् । तेन निक्षेपादन्यत्र रहसि कृतस्यापि विप्रतिपत्याशङ्कायां प्रकाशं प्रतिदानं 1 कंदांचिदस्ति । अथवेहाप्रकाशकृतस्य प्रकाशीकरणं निषिध्यते । तत्र त्वन्योऽर्थः समुद्रो- १० समुद्र इत्यादि तेनापौनरुक्त्यम् । मिथः शब्दो रहसि विज्ञेयः । अथवा परस्परं मिथः सर्व कार्य द्वाभ्यां साध्यं दानादिपरस्परमेव क्रियत इति । पुनर्वचनं तृतीयप्रतिषेधार्थम् । दायशब्द: सामान्यशब्दो निक्षेपादन्यानपि विक्रयादीनाह ॥ १९६ ॥ 1 निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च ॥ राजा विनिर्णयं कुर्यादक्षिण्वन्यासधारिणम् ॥ १९७ ॥ प्रकरणोपसंहारोऽनेन क्रियते । प्रीत्योपनिहितस्य स्नेहेन किंचित्कालं भोगार्थ दत्तस्य न्यासो निक्षेपस्तस्य धारणको यथा न पीड्यते तथा निर्णयः कर्तव्य इति । अक्षिण्वन्नपीडयन् । द्वित्रश्लोका निक्षेपकरणे विध्यर्थाः । सर्वमन्यदन्यतः सिद्धं श्लोकार्थेनोक्तम् ॥ १९७ ॥ १५ विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसंमतः ॥ न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम् ॥ १९८ ॥ अस्वामिविक्रयाख्यविवादपदमिदमनुकान्तम् । परस्य यद्द्रव्यादि स्वं तच्चेदस्वामी तत्पुत्रादिरन्यो वा विक्रीणीते स्वामिनाऽननुज्ञातस्तं स्तेनं चौरं विद्यात् । यद्यपि यस्तस्मात् क्रीणाति स तमस्तेनं मन्यते न तं नयेत साक्ष्यं तु तं पुरुषं न नयेत न प्रापयेत् साक्ष्यं न कारयेत्साक्षिकरणे न नियोक्तव्य इत्यर्थः । यथा चौरस्तादृश एवासौ । स्तेनत्वाच्च २५ न साक्षित्व एव प्रतिषेधः । किं तर्हि ? सर्वासु साधुजनसाध्यासु क्रियासु । परस्वमननुज्ञातेन विक्रीतं क्रेतुर्न स्वं भवतीति सिद्धे साक्षिकर्मनिषेधद्वारेण प्रतिषेधो वैचित्र्यार्थः ॥ १९८ ॥ For Private And Personal Use Only २० १-ण-र-मिथ्यो । २ ण-र-उत्तमर्णस्य धनस्य क्षपणीयं । ३ फ- संख्या । फ - परमेव ५-ण-र-परस्वमननुज्ञातः न विक्रीतक्रेतुनंसंभवतीति ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy