________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
Sur
साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः ।।
अपदेशैश्व संन्यस्य हिरण्यं तस्य तत्त्वतः ॥ १८३ ॥ पदार्थयोजनामिदानीमनुसरामः । " स याच्यः प्राडिवाकेन तन्निक्षेप्तुरसंनिधौ " येन रहसि स्थापितं साक्षिष्वसत्सु निक्षेप्ता तस्य याचमानस्य धारणको यद्यपहृते न त्वया किंचिन्निक्षिप्तमिति ततो निक्षेप्ता राजाज्ञापितो न निक्षेपधारिण आकारं दर्शयेत् । किं तर्हि ५ कुर्यात् । प्रणिधिभिश्चारैर्हिरण्यमात्मीयं सुवर्ण रूप्यं वाऽन्यस्य संन्यस्य निक्षिप्य याचितव्योऽर्थनीयः द्वितीयं निक्षेपं प्राडिवाकेन । प्राडिवाकग्रहणं निर्णयाधिकृतपुरुषोपलक्षणार्थम् । किं साक्षादेव याचितव्यो नेत्याह । प्रणिधीनां मुखेन । यैरेव न्यस्तं वयोरूपसमन्वितैः वयसामन्विता येन बाला न भवन्ति तेषां हि परैः प्रेरितानां मद्वञ्चनाओं न्यास इति संभाव्यते । परिणतवयेभ्यस्तु नाशको भवति । एवं रूपसमन्वयो व्याख्येयः । १० रूपमेव कस्यचित्तादृशं भवति यस्य दर्शनादेव चापलं प्रतिभाति । तथा च रूपमेतव्याचष्टे " भगवन्वीतरागताम्" इति तेनैव तदुक्तं भवति । तादृशाः प्रणिधयः कर्तव्या येषा मद्वञ्चनार्थोऽयमुपक्रम इति नाशङ्कते धारणकः । अपदेशैः सव्याजैर्निक्षेपकारणैः । राज्ञोपद्रवग्रामगमनादिभिरनेन हेतुना त्वयि संप्रति निक्षिपामीत्यनृतसंभवात्कारणकथनमपदेशः । एतच्च सर्व प्रानिक्षेप्तुरसंनिधौ कर्तव्यम् ॥ १८३ ॥
स यदि प्रतिपयेत यथान्यस्तं यथाकृतम् ॥
न तत्र विद्यते किंचिद्यत्परैरभियुज्यते ॥ १८४ ॥ स यदि निक्षेपधारी यदि प्रतिपद्येत बाढमस्ति गृहाणेत्यंगीकृत्य दद्यात् । यथान्यस्तं तथा कृतं समुद्र अमुद्रं यथाकृतं वस्त्रादि संवर्तितममुद्रितमन्यद्वा अलंकाराद्यनुपभुक्तं परिमलशून्यं गृहमुद्रया स्वचिह्नन स्थापितम् । तादृशमेव चेद्दद्यान्न तत्र विद्यते २० किंचित्सत्यं यत्परैः पूर्ववेदिकैरभियुज्यते । एतेनास्माकीनः साक्ष्यभावान्निक्षेपोऽपर्यत इति । यथान्यस्तं यथाकृतमिति गूढागूढचिन्हकृतेन भेदः । अथवा गृहीतनिक्षेप्तुर्व्यापारभेदेन भेदः । यथाकृतं यथागृहीतं निर्विकल्पमवलंबं च गृहीतं तथैव प्रतिदातव्यं प्रतिदाने यत्र कालग्रहणे न क्रियेत इत्यर्थः ॥ १८४ ॥ तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि ॥
२९ सं निगृह्ये दाप्यः स्यादिति धर्मस्य धारणा ॥ १८५ ।।
१फ-यमपद्भुते तत्वया । २ फ-श्च हिरण्य-। ३ फ-कस्य तादृशं । ४ फ-उभौ । ५ ख-निगृह्योभये
८२-८३
For Private And Personal Use Only