________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
मेधातिथिभाष्यसमलंकृता।
[ सप्तमः
माणविशेषज्ञानाय प्रमाणान्तरं व्यापारणीयम् । राज्ञाऽपववादेव सामान्यदण्डेन दण्डनीयः । निक्षेपदण्डस्तु द्रव्यपरिमाणे निश्चिते द्वितीयः ।
____ ननु च सर्वापह्नव एव विभावितो जित एव युक्तः । सत्यम् । यत्राविनाभावासिद्ध यथा मुषिते प्रामे देवदत्तो नियुज्यते त्वयाऽन्यैश्चौरैः सहामुष्मिन्नहनि स ग्रामो हत इति स आह नैव तस्मिन्नहनि तं ग्राममहमगमस्तत्र साक्षिभिरुक्तं दृष्टं तस्मिन्नहनि तत्र यन्मुष्टं तत्तु न दृष्टं तत्र देवदत्तेन मेषोऽप्यपद्भुतस्तदहामसन्निधानसिद्धेः स्फुटे च कारणान्तरे सन्निधावनुपलभ्यमाने सन्निधानादेशदेशाचौरत्वमपि युक्तमनुमातुम् । इह तु प्रमादनष्टानां नराणां मुद्रितनिक्षिप्तममुद्रितमेव नीयते । यथा दायस्तथा ग्रहः । को मेऽभियोगावसर इत्यनया बुद्धया संभवत्यपह्नवः । न हि शक्नोत्यनुमातुं यथापि कथंचिद्नुमापयेत्परिमाणं तु न विना प्रमाणान्तरं निक्षिप्तवचनादेव सिध्यतीति । युक्तो दिव्योदितो निश्चयः । सर्वथा य एकदेशान्तरेण न संभवति तत्रैवैकदेशपराजित इति निश्चयः ।। १८१ ॥
यो निक्षेपं याच्यमानो निक्षेपुर्न प्रयच्छति ॥ स याच्यः पाडिवाकेन तन्निक्षेमुरसभिधौ ॥ १८२ ॥
व्यत्यस्तक्रमोऽयं श्लोकः समाम्नाये पठ्यते । प्रथममस्यार्ध श्लोकं पठित्वा १५ साक्ष्यभाव इति पठितव्यम् । ततः स याच्य इति एवं पाठो युक्तः । तथा
ह्यर्थसङ्गतिर्भवति । साक्ष्यभावादिन्येषु प्राप्तेषु वचनमिदम् । यथा चर्णादानादिषु साक्ष्यभावसमनन्तरमेव दिव्यानि दीयन्ते न तद्वदन्न । किं तर्हि चरैरस्य वृत्तमनुचारयेत् । तत्र यदि निपुणतश्चार्यमाणो न क्वचिद्वृत्ते स्खलति तदा न शपथैर्रदर्शनीयः । अथाप्यत्र
प्रमाद्यति तदा निक्षेपहरणसंभावनाऽपि युक्तैव । तदा च दिव्यैः परिशोधनीयः। न पुनरनेक३० निक्षेपहरणेनापरनिक्षेपहरणं सिध्यति । कदाचिद्रीयसा प्रयोजनेनैकमदत्दृत्य कृता
प्रयोजन उत्पन्नानुशयो वाऽन्यस्य समर्पयति अतोऽयं श्लोकसंघातो झटिति निक्षेपधारणकस्य शपथनिवृत्यर्थों न पुनः प्रमाणोपन्यासः । न च प्राडिवाकनिक्षेपहरणे राजदण्डवदनिश्चितापरनिक्षेपहरणोऽपि प्रथमाभियोक्तुर्दापयितुं युक्तः । अनिश्चिते हि हरणे
दाप्येत यदि शास्त्रेण तदा निर्णयार्थ व्यवहारशास्त्रं स्यात् । ततश्च हेतुभिनिर्णयः कर्तव्य २५ इति विकल्पितस्तस्मान्न शास्त्रीयोऽयमर्थो न प्रमाणप्रसिद्धौ न च लौकिकी व्यवस्थेति ।
साक्ष्यभाव इत्याद्युक्तेन प्रकारेणान्यपरतया नेया ॥ १८२ ॥
१फ-उपायो । २ र-तद्वदन। ३ फ-पुनश्चर्य। ४ र-शपधैरमणीय, । ५ र-मथान्यत्र । ६ रविरुध्यते । ७फ-व्यवस्थितिः ।
For Private And Personal Use Only