SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४६ मेधातिथिभाष्यसमलंकृता । [अष्टमः सिंधवो नद्यो यथा समुद्रमाश्रयन्त्याश्रिताश्चानुरागिण्यस्तन्मय्यो वसन्ति न ततो निवर्तन्ते एवं कामक्रोधनयाद्राजानं प्रजाः समयोगक्षेमास्तन्मय्यः संपद्यन्ते ॥ १७६ ॥ यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे ॥ स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनम् ॥ १७७ ॥ छन्द इच्छर्छ । तेन राजानमज्ञापयित्वा यदा प्रागुक्तैश्चतुर्मिरुपायैः स्वेच्छया न धनमार्गेण प्रवृत्तं तथाभूतं वा राजपुत्रैराव्हयनेनार्हतरप्रदेशोऽनुरुध्येदं हि धनमिति स चापृष्टो धारयामीति यत्प्रतिपद्यते स राज्ञा चतुर्थ भागं दण्डापयितव्यः । यावत्तस्मै धारयति तस्य तत्र सर्वमृणं शतं चेद्धारयति पञ्चविंशतिर्दण्डनीयः । शतं तस्य दाप्यः ।एवं पञ्चविंशतिः। न त्वियं भ्रान्तिः कर्त्तव्या । शतं राज्ञः पञ्चविंशतिशिष्टं धनिकस्य । धनिको १० हि तथा दण्डितः स्यान्नर्णिकः ॥ १७७ ॥ अथ शक्तिविहीनः स्यात् ऋणी कालविपर्ययात् ॥ प्रेक्ष्यश्च तमृणं दाप्यः काले देशे यथोदयं ॥ १७८ अ. यद्यधमर्णो देवदोषान्निर्धनीभूतस्तदा न दुर्गाधानादिना राज्ञोपपीडयितव्यः । किं तर्हि कर्तव्यं यदास्य कथंचिद्धनं भवेत्तदा यथासंभवं शनैर्दापयितव्यः । प्रेक्ष्य शक्तिं धनवृत्तां युज्यत इत्यर्थः । दाप्यः उचितस्य वक्ष्यति " कर्मणापि समः कुर्यात् ” इति । तस्मा कारणपरिवृत्तौ यदेवोक्तमस्माभिस्तदैव प्रयोजनम् ॥ १७८ अ. ॥ अनेन विधिना राजा मिथो विवदतां नृणाम् ।। साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ १७९ ॥ अनेनेति पूर्वोक्तप्रकारप्रत्यवमर्शः । विधिना प्रकारेण । साक्षिप्रत्ययः सिद्धशब्दः प्रत्येकमपि संबध्यते । साक्षिभिः सिद्धानि निर्णीतानि प्रत्ययः । अनुमानं दैवी वा क्रिया कार्याणि न केवलमृणादानमन्यदपि संमतं न यदर्थिप्रत्यर्थिविप्रतिपत्ति२५ मपाकुर्यादैक्यमन्यत उत्पादयेत् । उपसंहतमृणादानं समाप्तो व्यवहारः। सर्वत्र जयपराजय प्रकाराणामेवंरूपत्वात् । न हि साक्ष्यादिम्य ऋते किंचिदुत्तरेषु विवादेषु प्रतिपत्तिनिरास १ज-वित्तानुक्तभयस्वमुपति स्वातीत्यर्थः । २ " शनैर्दाप्यो यथोदयम् ' इति नारदीये । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy