SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः ] मनुस्मृतिः । ६४५ यन्ति राष्ट्रे या अतस्तैरभिषेण्यमानो विरक्तप्रकृतिरिह नश्यति आदानादिह प्रेत्य वाधर्मदण्डनात् ॥ १७२ ॥ स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात् ॥ बलं संजायते राज्ञः स प्रेत्येह च वर्धते ॥ १७३ ॥ Acharya Shri Kailassagarsuri Gyanmandir स्वस्य न्यायप्राप्तस्यादानं शोभनं वाऽऽदानं भव्यमेव शोभनं वर्णयोरेव संसर्गः समानजातीयैर्वर्णसंसर्गः द्विष्टत्वात्संसर्गस्य च संबन्धिनोरश्रुतत्वाद्वर्णानां प्रस्तुतत्वात्तत्रेवापेक्षा युक्ता । यस्तु वर्णानामवान्तरप्रभवे संसर्गे नासौ वर्णानामेव संबन्धितया व्यपदेष्टुं शक्यते । कश्चित्तु नकारं पठति । वर्णासंसर्गादिति सर्वथा वर्णसंकरप्रतिषेधानुवादोऽयम् । दुर्बलानां बलवद्विद्वेषिभिरभिभूयमानानां स्वेभ्यस्त्राणाद्धेतोः राज्ञो बलं संजायते । सम्यग्व्यवहारदर्शनं कर्तव्यं धर्मदण्डनं च न कर्तव्यमित्येतद्विशेषाः पठिष्यन्ते लोका- १० नामर्थवादाः ॥ १७३ ॥ तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये ॥ वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ॥ १७४ ॥ तथा चैतदेव प्रपञ्चयति । अयं सेवक आत्मीयोऽतः प्रियः न केवलं राष्ट्रवासी यस्यैव राष्ट्रं तमेवावतिष्ठतेऽतोऽप्रियः तद्विदित्वा यमवत्प्रजासु तुल्यः परिपालने व्यवहारे १९ च स्यात् । ईदृशी हि यमस्य वृत्तिर्दृष्टा । यमस्येत्यणो बाधकं तत्रौपसंख्यानिकं यकारमिच्छन्ति । कः पुनर्यमतुल्यतां भजति जितक्रोधो जितेन्द्रियः । रागद्वेषौ जयेत्प्रसङ्गाख्यानेन ॥ १७४ ॥ यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः ॥ अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ १७५ ॥ अधर्मे यः कार्याणि कुरुते स मोहादेवेह व्यामूढो धर्मं जह्यात् । तस्येदं धर्मजं फलं विरक्तप्रकृतितया वशे कुर्वन्ति शत्रवः । विरक्ता हि प्रकृतयः क्रुद्धलुब्धभीतावमानिताः परैरुपजप्येरंस्ततश्च बहुकृत्य वशे कुर्वन्ति दण्डयन्ति बर्धन्ति घ्नन्ति राष्ट्रमपहरन्ति चेत्येष वशीकारः ॥ १७५ ॥ कामक्रोधौ त संयम्य योऽर्थान्धर्मेण पश्यति ॥ तु प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ १७६ ॥ १ फ-बन्धन्ति । For Private And Personal Use Only २५
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy